Tuesday, June 13, 2023
Chapter 17 Summary
श्री गुरुभ्यो नमः ।श्री कृष्णपरमात्मने नमः।
यदा तव कार्ये अकार्ये वा विषये संदेहो भवति तदा तव शाश्त्रं प्रमाणं स्वीकारणीयं - इति भगवता शोडशोध्यास्य अन्ते उक्तः ।सप्तदशाध्यस्य आरम्बे तत्वाक्यस्य अनुषन्गिकप्रश्नं प्रुच्चन् अर्जुनः तस्य संदेहं व्यक्तं कृतवान्।जगति सर्व जनाः कस्मिँश्चित् विषये श्रद्दया एव व्यवहरन्ति।केचन जनाः शास्त्रविहित कर्माणि कुर्वन्तः दैवीसंपत्तिगुणान् वृद्दीं कुर्वन्ति।चार्वाकाः केवल भौतिकविषयेषु श्रद्दया व्यवहरन्तः भगवतः निन्दा कुर्वन्ति।धने आकर्षितजनाः तत्विषये एव मग्नैः जीवनं यापयन्तः सर्वदा श्रद्दया एव धनसम्पत्तीनाम् वृद्दीं कर्तुं मार्गाणाम् अन्वेषणम् कुर्वन्ति।केचन जनाः असूरीभावेन कामभोगविषयेषु आसक्ताः भवन्ति।ते अपि तेषां कार्यसिद्धीनाम् अतीव श्रद्दया एव परिश्रमन्ति।जनानां श्रद्दा तेषां स्वभावनुशारेण वर्तते।कोऽपि सदा सत्वगुणे व्यवहरति किन्तु तस्मै शास्त्रप्रमाणिकविषयाणां ज्ञानं न भवति।केचन जनाः सदा सामाजिक सेवा कार्याणि कुर्वन्ति, केचन मातापित्रोः सेवा श्रद्दया भक्तिभावेन एव कुर्वन्ति,केचन दानकर्माणि विना प्रतिफलाक्षेपभावेन एव कुर्वन्ति।शास्त्रज्ञानस्य अपभवितुं आसूरीप्रवृत्त्याः मार्गनिर्देशनं करोति वा - इति अस्माकं संदेहः।गणितशास्त्रे एकायाः समस्याः समाधानपद्धतयः विविध रूपेषु वर्तन्ते।यदी निर्देशित सूत्रानुशारेण परिष्कारं करोति चेत् तस्याः समस्याः परिष्कारं सुलभेन पप्तुं शक्यते।किन्तु अन्य मार्गेण अपि तस्याः समस्याः परिष्कारं कर्तुं शक्यते खलु।केचन जनाः तेषां पूर्वजन्मकर्मफलितानुशारेण सत्कर्मणां कृते आसक्ताः भवन्ति किन्तु यदी तत्कर्याणाम् निमित्तं शास्त्रनिर्देशितमार्गं अनुचितं भवति।सर्वजनाः तेषां स्वभानुशारेण श्रद्दया कर्मानुष्टानं कुर्वन्ति।यदी सत्वगुणप्रधान स्वभावं अस्ति चेत् सर्वदा देवतारधनस्य कृते आकर्षिताः भवन्ति। सा आराधना सर्वदा सत्फलितानि एव ददति।रजोगुणस्वभावाः सर्वदा यक्षाणां राक्षसानां च पूजां कुर्वन्ति।मूढाः तमोगुणस्वभावाः अध्यात्मिकसाधनस्य निमित्तं घोर भयानक च तपानि क्रुवन्ति।तानि तपानाम् फलितम् अपि जगतः दुःखप्रदकारकम् एव भवति।दृष्तान्तरूपेण भस्मासुर वृत्तान्ते तस्य तपसः अन्तिमफलितम् हानिकारकम् एव अभवत् खलु।
सामान्यजनानाम् स्वभावान् के के विषयेषु आधारिताः भवन्ति? भगवान् पूर्वस्मिन् सन्दर्भेषु कथं वयम् परमात्मनि सर्वदा मनसि स्थापयित्वा तस्य प्रियाः भवितुं शक्यन्ते, एतस्य विषये उक्तवान्।भगवान् परमपावनपवित्रस्वरूपः।यदी मनसि पवित्रभवनानि न चेत्,भगवतः निज स्वरूपं क्षेत्रात् निश्चयेन बहिः गच्छति।सर्व व्रतपूजाविधानेषु वयं भगवन्तं आवाहनं कुर्मः।तस्मिन् समये वयं अतीव पवित्रभावेन तद् व्रत सम्बन्धित आहारनियमान् अनुसरयित्वा यथाशक्यं भगवतः नामस्मरणं कृत्वा संतोषेण दानानि कुर्मः।यदी अस्माकं मनसि सात्विकभावनानि न सन्ति चेत् कथं भगवान् सायाः पूजायाः निमन्त्रणं अङ्गीकरोति?भगवान् सप्तम श्लोके आहारतपयज्ञस्य त्रिविधान् विषये बोधयितवान्।कथं आहार नियमानि अस्माकं स्वभावान् प्रभावितम् करोति - इति चिन्तनीयम्।अस्माकं जीवने आहारप्रयोजनम् किं ? केवल क्षुध्बाधानिवारणं व अथवा अन्य कोऽपि प्रयोजनम् अस्ति वा? आहरम् अस्माकं कृते भोगनीयपदार्थं वा अथवा परमार्थपदार्थं वा?सर्वप्राणिनाम् कृते आहारस्य मौलिक प्रयोजनम् क्षुध्बाधानिवारणं एव खलु।सात्विकभोजनविकल्पं चिनोति चेत् सात्विकगुणाः वर्धन्ति।ये आहाराः आयुः बलम् आरोग्यं प्रीतिं च विवर्धन्ति ते अस्माकं मनसि सत्त्वगुणान् वृद्दीं कुर्वन्ति।ते आहाराः रस्या: स्निग्धा: स्थिरा हृद्याः च।ये आहाराः स्वीकृत्या पुनः कोऽपि नूतन क्लेशं न जनयति ते एव सात्विकाहाराः। दृष्टान्तरूपेण नवीन वैध्यशास्त्रे सर्व औषधेभ्यः अनेक अनुषन्गिक विपरीतपरिणामान् निश्चयेन भवन्ति।ते एकस्याः बाधायाः निवारणं कुर्वन्तः बहुइतर समस्याः उत्पन्नं कुर्वन्ति। सात्विकाहारानाम् स्वीकृत्या मानसिक संतुलितं भविष्यति तेन कारणेन एव सत्वगुणप्रधन जनाः तद् आहारं एव स्वीकर्तुं इच्छन्ति।आहरमुक्ष्यप्रयोजनम् शरीरस्य आरोग्यं संपूर्णआयुः च।तेन कारणेन मनसि भगवतः विचारानि एव स्थापनम् - इति साधु जनाः मन्यन्ते। केचन जनाः तेषां जीवनेषु आहारमेव परमप्रयोजनम् इति चिन्तयित्वा सर्वदा व्ययप्रयशान् कुर्वन्ति।ते अतीव कटु अथवा आम्ल अथवा लवण अथवा अन्य रजोगुण प्रथान आहारेषु सदा आसाक्ताः भवन्ति।ते भोजनानन्तरम् अनेक अस्वास्थ्याः अनुभवन्ति किन्तु तेषां आहारेषु विरक्थाः न भवन्ति। लोके विशेष आहाराणाम् अस्वादनं कृत्वा तद्कार्यं गौरव गर्व च कारणं - इति चिन्तयन्ति। तेन कारणेन एतेषाम् आहाराणां खादित्वा कश्चन सर्वदा अशान्तीः अनुभवन्ति। तर्हि कथं मनसि भगवतः स्वरूपं स्थापितुं शक्यन्ते।दशम श्लोके भगवान् तामसप्रियजनाः के के आहारान् इच्छन्ति एतस्य विषये उक्तवान्।भगवतः उपदेशित आहारान् सम्यक् रीत्या ज्ञात्वा वयं अस्माकं जीवनेषु केषां त्यजनम् करणीयं केषां स्वीकरणीयं एतस्य निर्णयं कर्तुं शक्यामः। भगवान् उच्छिष्ट आहारपदार्धान् अपि तामसी वर्गे स्थापितवान्।वर्तमानकाले कतिपय साम्प्रदायान् उच्छिष्ट आहारान् एव खादयन्ति - इति वयं अवलोकनं कर्तुं शक्यामः।
अनन्तरं भगवान् त्रिविधानाम् यज्ञप्रवृत्तीनाम् विषये विशदी कृतवान्। "अफल आकाक्षाभिः" इत्युक्ते विना प्रतिफालापेक्षभावेन यज्ञकर्माणि करणीयं आवश्यकम्।यज्ञकर्तकः वेदविहितानुशारेण एव यज्ञ कर्माणि करणीयं।यदी यज्ञकर्माणि भगवद्समर्पण भावेन करोति चेत् ते सत्वगुणान् प्रवृद्दीं कुर्वन्ति।यदी कोऽपि प्रतिफालापेक्षभावेन यज्ञकर्माणि करोति चेत् तत् कर्म विनिमयकर्म एव भवति। भगवान् दंभप्रवृत्त्याः विषये बहुवारं पूर्वस्मिन् सन्दर्भेषु कथयतिवान्।वर्तमानकाले बहून् यज्ञकर्माणि दम्भेन आडम्बरेण आचरन्ति।ते रोजोगुणान् एव वर्धयन्ति।तमोगुण जनाः विना श्रद्दाविश्वाशेन शास्त्रविरुद्दभावेन यज्ञयागकर्माणि कुर्वन्ति।तत् यज्ञ विहित दानदक्षिण कार्याणि अपि न आचरन्ति।ते यथाचित्तं अहन्कारेण गर्वेण च यज्ञ कार्याणि कुर्वन्ति।दृष्तान्तरूपेण वर्तमानकाले बहवः संस्थाः उच्चैः संगीतस्यध्वनैः दीपोत्स्वैः यज्ञकर्माणि कृत्वा शास्त्रविधान् न आचरन्ति।
अनन्तरं भगवान् चतुर्दशश्लोकात् षोडशश्लोक प्रति त्रिविधाः तपसाम् विषये अपि उक्तवान्।परमेश्वरस्य ब्राह्मणानां गुरूणाम् च पूजनम्, शौच आर्जव मार्धव ब्रह्मचर्य अहिंसा च इत्यादि गुणानां साधनं शारीरक तपांसि कथ्यते।
सत्यम् ब्रूयात प्रियं ब्रूयान सत्यम् अप्रियं
प्रियं च नानृतं ब्रूयात एष धर्मः सनातनः
इति मन्युस्मृत्या उक्तम्।द्वितीय प्रकार तपः वाक्तपः भवति।अनुद्वेगकरं सत्यं प्रियहितं च यत् वाक्यं स्वाध्याभ्यसनं च एव वाङ्ग्मयं तपः उच्च्यते।
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वलाः
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।।
इति भ्रत्रुहरि सुभाषितं अस्माकं कृते वाक्शुद्द्याः महत्वं बोधयति।एतत् श्लोकं AIR माध्यमात् सुपरिचितम् खलु।मानसिक तपः तृतीय प्रकारः भवति।मनः अस्माकं कृते प्रिय मित्रः अथवा दुष्ट शत्रुः भवितुं अर्हति।वयं कथं अस्माकं मनः शिक्षणं कुर्मः तदनुशारेण एव परिवर्तते।यदी वयं अधिकतर द्वेष प्रतिकूल विनाशक दूषणभरित च भावनाः पूरितं कुर्मः चेत् अस्माकं मनः भयानकशत्रुः भवति।तत्स्थाने यदी वयं सदा पवित्रभावनान् स्थापयामः चेत् अस्माकं मनः अस्माकं कृते प्रिय मित्रः भवितुं शक्यते।ये भक्तिश्रद्दया एतानि त्रीणि तपांसि कुर्वन्ति चेत् ते सात्वगुनान् वृद्दीं कुर्वन्ति।कीर्तिप्रतिष्ठानाम् कृते कुर्वन्ति चेत् ते रजोगुणस्थिताः।यदी कोऽपि तेषां शरीस्य हिंसा कुर्वन् अन्यैतर प्राणिनां क्षोभयन्ति चेत् ते तमोगुणस्थिताः।
यदी कोऽपि दानकर्म तस्य विहित कर्तव्यभावनेन विना प्रतिफालापेक्षभावेन च कुर्वन्ति चेत् तद् सत्वगुनदानं वक्तुं शक्यते।"दानमेकम् कलौयुगे" - कलियुगे दानमेव अन्तःकरण शुद्धये परमोत्तम मार्गं - इति भविष्य पुराणेन उक्तम्।अमेरिका राष्ट्रे केचन जनाः केवल tax benefit कृते एव कतिपय दानानि कुर्वन्ति।ते सर्वे फलापेक्षा दानानि एव खलु ।केचन जनाः दानं दत्वा बहुव्यकुलिताः भवन्ति।तेषां वितरणानाम् कृते पुनः पुनः विचारं कुर्वन्ति।केचन जनाः तेषां BLACK MONEY एव दानं कृत्वा दम्भेन व्यवहरन्ति।तानि दानानि रजो अथवा तमो गुणान् एव वृद्दीं कुर्वन्ति।
अन्ते भगवान् त्रिर्विंशतित्तम श्लोकतः अश्तविम्स्तित्तम श्लोकपर्यन्तं "ॐ तत् सत्" पदानाम् विवरणं दत्तवान्।ओंकार शब्दः भगवतः निराकारअस्थित्व चिह्नं अस्ति।तत् शब्दः सनातनः।षष्टविम्सति सप्तविम्सति श्लोकयोः भगवान् सत् शब्दस्य वर्णनं कृतवान।सत् शब्दस्य अनेक अर्थाः सन्ति।षष्ट सप्त विस्तित्तं श्लोकयोः सत् शब्दस्य विवरणं भगवान् कृष्णेन दत्तम्।सत् इत्युक्ते मङ्गलः सनातनः नित्यः शुभः च।भगवतः संकल्पं सत्यं भवति।सृष्टिस्थितिलयस्थितिषु भगवान् एव सत्रूपेण तिष्टति।यज्ञाय तपसे दानाय च या स्थितिः क्रियते सापि सत् इति कथ्यते।अश्रद्दया हुतं दत्तं तप्तं कृतं च यत् असत् इति उच्च्यते तत् प्रेत्य न इह नो - इति भगवान् अध्यायस्य अन्ते उक्तवान् ।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment