Tuesday, June 13, 2023
Chapter 16 Summary
श्री गुरुभ्यो नमः ।श्री कृष्णपरमात्मने नमः।
षोडशोध्याये भगवान् अतीव सरलता मार्गेन मनुष्याणां द्वयोः स्वभावयोः विषये अर्जुनं बोदितुं आरम्बं कृतवान्।शात्रौपदेशान् अनुसरयित्वा, सत्वगुणानां वृद्दीं कृत्वा, मनसः शुद्दीं कृत्वा क्रमशस् वयं दैवीगुणानां संपत्तिं प्राप्तुं शक्नुमः। एतस्य अध्यायस्य आदौ भगवान् षट्विंशति दैवीगुणानि उल्लेखितवान्।भगवान् दैवीगुणस्वभावानाम् विषये कथयन् मकुट स्थाने "अभयं" स्थापितवान्।भीरुः यद्यपि सकलसम्पदान् प्राप्य कदापि सन्तोषेण जीवनं यापितुं न शक्नोति।सः निश्चायकसमयेषु संतुलितः न भवति।एकस्मिन् समये एकः राजः तस्य राज्यं नष्टं जातम्।तस्मात् अष्टलक्ष्मीषु सप्तलक्ष्म्यः दूरं गच्छन्ति। किन्तु सः राजः धैर्यलक्ष्मिं न त्यजितवान्। तेन कारणेन सः पुनः शेषलक्ष्म्यः प्राप्तवान्।
अनन्तरं भगवान् सत्वसंशुद्ध्याः लक्षणं प्रस्थावितवान्।कोऽपि लक्ष्यसाधननिमित्तं अन्तःकरण सुद्दिः अतीव आवश्यकं भवति।एतस्मिन् सन्दर्भे एका कथा पश्यामः। एकः राजः तस्य राज्यस्य चतुरङ्गबलाध्यक्षस्य अधिपतिम् नियुक्तस्य निमित्तं द्वौ महायोधौ चिनोतिवान्।किन्तु द्वयोः एकः एव ताम् पदवीं नियोजितुं शक्यते। तेन कारणेन सः एका अन्तिमपरिक्षा कर्तुं निस्चयितवान्।सः तौ योधौ एकं अरण्यं गत्वा एकं विशेषवस्तु आनेतुम् आदेशं कृतवान्। यः प्रथमं तद्वस्तु प्राप्नोति सः एव चतुरङ्गबलाध्यक्षस्य अधिपतिम् भवितुं अर्हति - इति सः राजः प्रकटितवान्। यदा तौ द्वौ योधौ तत्वास्तु अन्वेशानार्धं अरण्यं गतवन्तौ एकः व्याग्रः तौ उपरि आक्रमणं कृतवान्।प्राणरक्षनार्धं एकः योधः एकं वृक्षं आरूढवान्।द्वितीयः भयेन पलायनं कृतवान्।किञ्चित् समयानन्तरं तत् व्याग्रः तत् प्रदेशात् निर्गतवान्। प्रथम योधः अरण्ये तानि वस्तूनि गृहीत्वा राजम् समीपं गतवान्।अनन्तरं द्वितीययोधः अपि तानि वस्तूनि गृहीत्वा स्वस्थलं गतवान्। तत् राजः पृथक् पृथक् तौ योधौ वस्तूनाम् साधनस्य पद्दत्याः विवरणं अपेक्षितवान्। प्रथमयोधः यथा अभवत् तथा एव उक्तवान्।किन्तु द्वितीययोधः संपूर्ण भिन्नेन "अहं व्याघ्रेण सह भीशनयुद्धं कृत्वा व्याघ्रं हतं कृत्वा तानि वस्तूनि आनीतामि" - इति उक्तवान्। किन्तु तत् राजः बहुचतुरः। सः तौ योधयोः पश्चात् कतिपय गूढाचाराः अपि प्रेषितवान्। सः प्रथमयोधं चतुरङ्गबलाध्यक्षस्य अधिपतिम् नियिक्तवान्। यः चित्तशुद्दीं न प्राप्नोति सः एतस्य अत्युत्तमपदवीं अधिष्टितुं न शक्नोति - इति उद्गोषितवान्।
दानम् अपर प्रमुख दैवी गुणः भवति।यदी कोऽपि सत्कर्मस्य निमित्तं अपेक्षित संपत्तिं संतोषेण विना गर्वेन ददाति चेत् तत्कर्म दानम् वक्तुं अर्हति।यः दानं भगवद्सेवा साद्रुशा अनुभवति सः एव निष्कपट दाता भवति। भौतिकदानं जानानां कृते तात्कालिक उपशमनं ददाति किन्तु अध्यात्मिक दानं भगवद्विमुखतयाः भावनायाः दूरं करोति।
दैवीस्वभावस्यगुणानाम् बोदयित्वा भगवान् असूरिस्वभावानां विषये उक्तवान्।आसूरीगुणजनाः सत्प्रवर्तनस्य दुष्टप्रवर्तनस्य मध्ये अन्तरम् न जानन्ति।आधुनिककाले सर्व व्यवहाराणाम् कृते आमोदं लभति।This is called woke culture।यदी कोऽपि दुष्ट कर्माणि कुर्वन्ति चेत् अपि आक्षेपं न करणीयं।सर्व न्याय व्यवस्था शुष्कवादनस्य निमित्तं कालयापं कर्तुं इच्छन्ति।आसूरीगुणजनाः सदा विमूढभावेन वर्तन्ते।
ते सदा काममोहक्रोधलोभस्य पीडिताः भवन्ति।ते जीवनपर्यन्तं तेषां आसूरी सवभावानां कारणे अनेकजनेषु शत्रुभावने व्यवहरन्ति।कथं कस्मिन्नपि शत्रुभावना उध्भवति? आसूरीगुणसंपन्नाः सर्वदा लोभेन अनुसूचित कामचिन्तनानि क्रुवन्ति।यदी तेषां कामवाञ्छाम् सफलं न भवति चेत् ते क्रोधपीडिताः भवन्ति।तत्कारणे ये तेषां कामानां अवरोधं कृतवन्तः ते शत्रवः - इति मन्यन्ते।महाभारते कुरुक्षेत्रे एकस्मिन् सन्दर्भे दुर्योदनसात्यकयोः मध्ये युद्दम् अभवत्।सात्यकिदुर्योदनौ वस्तुतः द्रोनाश्रमे उत्तमौ मित्रौ स्तः।वर्तमानस्थित्याः कृते दुर्योदनः विना पञ्चात्तापेन "अहो! एषा स्थितिः मम राज्यलोभस्य कारणेन एव संभवति खलु।", इति उक्तवान्।दुर्योदनः तस्य आसूरीप्रवृत्ति कारणेन समग्रम् परिसरं कलुषितं कृतवान्। तदैव आसूरीगुणजनाः समाजस्य कृते अतीव अपायकाराः भवन्ति।यदी वयं दैवी गुणान् वृद्दीं कुर्मः चेत् केषामपि कृते शत्रुभावना न भवति।समनकाले धर्मराजः कौरवैः सह विना शत्रुभावनेन एव युद्दम् कृतवान्।सः धर्माचरणस्य कर्तव्यस्य कृते एव युद्दम् कृतवान्।रामयणकाले अपि भगवान् श्री रामचन्द्रः रावणं तस्य शत्रुः इति न कदापि चिन्तितवान्।सः केवल क्षत्रिय इत्युक्ते स्वधर्मनिर्वहणार्धम् एव रावणवधं कृतवान्।यदा विभीषणः रावण मरणान्तरम् अन्त्येष्टिकर्माणि कर्तुं निराकरणं कृतवान् भगवान् श्री रामचन्द्रः स्वयं तद्कार्यं कर्तुं उद्युक्तवान्।
किन्तु असूरिगुणजनाः सदा काममोहिताः भवन्ति।यदा तेषां कामनाः फलन्ति, ते अहङ्कारं प्राप्नुवन्ति।अहं बलवान्, शक्तिमान्, धनवान्, प्रभुः च इत्यादि मनोभावैः सदा पीडिताः भवन्ति।
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता:
अहं यज्ञकर्माणि करोमि।अहं दानानि ददामि।अहं धनिकः।मम बन्धुजनाः उन्नतस्थाने स्थिताः। सद्रुशोमया कः?एतेषु भ्रमेषु तेषां जीवनं यापयन्ति।"सद्रुशोमया" - इति कस्य विशेषणं भवति?स्वयं भगवान् एव खलु।
किन्तु यदी केऽपि देवानां कृते यज्ञयगकर्माणि कुर्वन्ति चेत् ते कथं आसूरीगुणानि संप्राप्यन्ति? यज्ञकर्मणाम् निर्देशनं भगवता एव दत्तं खलु ?
भेरी मृदन्गभिरुतं मुख्यैःक्षागरुचन्दनैः
महाजनैः समाकीर्णं सिम्हैरिव महद्वनम् ।
यदा श्री अन्जनेयः सीतान्वेषानार्धं लङ्कानगरं प्रविष्टवान्, सः ब्राह्मीमुहूर्ते बहवः राक्षसाः नित्यार्चानाः कुर्वन्तः आसन् द्रष्टवान्।लङ्कानगरे अन्जनेयेन यज्ञयागकर्माणि नित्यं दर्शितानि। सदा लङ्कानगरे दिव्यशङ्कगोषनिनादानि श्रोतुं शक्यन्ते। बाह्ये लङ्कानगरं अतीव रमणीयं सुन्दरं सांप्रदायभरितं मङ्गलम् च किन्तु तद्नगरं भगवद्प्रियं - इति वक्तुं कदापि न शक्यते।कथं यज्ञवैदिककर्माणि भगवद् सम्मतः न? एतस्मिन् सन्दर्भे एकं उदाहरणं वयं पश्यामः।कस्मिन्चित मधुरपदार्धे शर्करां आवश्यकम् भवति। किन्तु यदी प्रमाणाधिकं शर्करां स्थापनेन तद् मधुरपदार्धं न खादनीयम् भवति खलु।तदैव विना भक्तिभावेन पूजा भगवतः न आमोदं भवति। अद्यतनकाले सत्कर्माणि अपि स्पर्धाभावेन कतिपय जनाः कुर्वन्ति।धार्मिकसंस्थाः अपि एतेन भावनेन तेषां कार्यक्रमाणि कर्तुं इच्छन्ति।अमेरिका देशे CHURCH, देवालयाः, समजसेवा संस्थाः इतर अन्य संस्थाः कश्चन सन्दर्भेषु व्यापार विचारेण एव चालयन्ति ।भगवान सप्तादश श्लोके एतस्य उद्देश्यं एव व्यक्तं कृतवान्।
आत्मसम्भाविता: स्तब्धा धनमानमदान्विता: |
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् || 17||
सज्जनाः जनाः आत्माशुद्ध्याः भगवद्कृपयाः निम्मत्तं यज्ञकर्माणि कुर्वन्ति।जगति दुष्टजनाः अपि यज्ञकर्माणि कुर्वन्ति किन्तु तेषां प्रयोजनम् कदापि भगवतः प्रसन्नता न।ते केवल दम्भेन स्वार्धेन च एव तत् सर्व कर्माणि कुर्वन्ति।समाजे ते प्रतिहारवेषेण एव उत्तमपुरुषशाद्रुश रीत्या व्यहहरन्ति किन्तु ते शास्त्रौपदेशान् न अनुशारन्ति। गुहीतस्य भवेद् वृद्दिः कीर्तितस्य भवेत् क्षयः(గూహితస్య భవేద్ వృద్ధిః కీర్తితస్య భవేత్ క్షయః)।यदी वयं सत्कर्मणाम् विषये परोचनं कुर्मः चेत् तत् फलितं क्षीणं भवति।यदी गुप्तिम् कुर्मः चेत् तत् सत्कर्मफलितं अधिकं भवति।अहन्कारबलदर्पादयः सदा कामक्रोधभावेन अन्य जनेषु दोषान्वेषणं कुर्वन्ति।एतादृशाः ते असूयापराः सर्वेषु शरीरेषु अन्तर्यामितया वर्तमानं भगवन्तं खेदयन्ति। दम्भस्वभावस्य विषये भगवान पूर्वस्मिन् सन्दर्भे अपि एकवारं उक्तवान्।दम्भस्वभावस्य करणात् वास्तविक परिसीनात्मक दृष्टिं नष्टं भवति।तत्करणेन दम्भपुरुषः सर्वदा कृत्रिमजीवनं एव यापयति। लोभात् कामं, कामात् क्रोधं, क्रोधात् क्रूरत्वं द्वेषं च संभवन्ति।आत्मविनाशकस्य त्रिविधं नरकद्वाराणि कामक्रोधलोभाः एव।नरकद्वारैः एतैः कामादिभिः त्रिभिः विवर्जितः मानवः स्वस्य हितं यदि करोति तर्हि सः अत्यन्तप्रशशनीयं उत्कृष्टं मोक्षं अधिगच्छन्ति।
आसूरीप्रवृत्तिम् कथं वयं निवारणं कर्तुं शक्यामहे, एतस्य उपायं अन्ते भगवान् उक्तवान्।कतिपय जनाः "मह्यं कोपि नियमाः न वर्तन्ते, अहं यथाचित्तं तथैव जीवनं यापयामि" एतस्य भावनेन जीवन्ति। किन्तु सदा अस्माकं मनः उचितमार्गम् सूचयति - एतस्य प्रमाणं न भवति खलु।तस्मात् सर्वदा तव कार्ये अकार्ये वा विषये संदेहो भवति तदा तव शाश्त्रं प्रमाणम्। तत्र स्थितेन वाक्येन यत् प्रतिपाद्यते तदेव कार्यं कर्तुमर्हसि - एतस्य संदेशं भगवान उक्तवान्।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment