Tuesday, June 13, 2023

Chapter 16 Summary

श्री गुरुभ्यो नमः ।श्री कृष्णपरमात्मने नमः। षोडशोध्याये भगवान् अतीव सरलता मार्गेन मनुष्याणां द्वयोः स्वभावयोः विषये अर्जुनं बोदितुं आरम्बं कृतवान्।शात्रौपदेशान् अनुसरयित्वा, सत्वगुणानां वृद्दीं कृत्वा, मनसः शुद्दीं कृत्वा क्रमशस् वयं दैवीगुणानां संपत्तिं प्राप्तुं शक्नुमः। एतस्य अध्यायस्य आदौ भगवान् षट्विंशति दैवीगुणानि उल्लेखितवान्।भगवान् दैवीगुणस्वभावानाम् विषये कथयन् मकुट स्थाने "अभयं" स्थापितवान्।भीरुः यद्यपि सकलसम्पदान् प्राप्य कदापि सन्तोषेण जीवनं यापितुं न शक्नोति।सः निश्चायकसमयेषु संतुलितः न भवति।एकस्मिन् समये एकः राजः तस्य राज्यं नष्टं जातम्।तस्मात् अष्टलक्ष्मीषु सप्तलक्ष्म्यः दूरं गच्छन्ति। किन्तु सः राजः धैर्यलक्ष्मिं न त्यजितवान्। तेन कारणेन सः पुनः शेषलक्ष्म्यः प्राप्तवान्। अनन्तरं भगवान् सत्वसंशुद्ध्याः लक्षणं प्रस्थावितवान्।कोऽपि लक्ष्यसाधननिमित्तं अन्तःकरण सुद्दिः अतीव आवश्यकं भवति।एतस्मिन् सन्दर्भे एका कथा पश्यामः। एकः राजः तस्य राज्यस्य चतुरङ्गबलाध्यक्षस्य अधिपतिम् नियुक्तस्य निमित्तं द्वौ महायोधौ चिनोतिवान्।किन्तु द्वयोः एकः एव ताम् पदवीं नियोजितुं शक्यते। तेन कारणेन सः एका अन्तिमपरिक्षा कर्तुं निस्चयितवान्।सः तौ योधौ एकं अरण्यं गत्वा एकं विशेषवस्तु आनेतुम् आदेशं कृतवान्। यः प्रथमं तद्वस्तु प्राप्नोति सः एव चतुरङ्गबलाध्यक्षस्य अधिपतिम् भवितुं अर्हति - इति सः राजः प्रकटितवान्। यदा तौ द्वौ योधौ तत्वास्तु अन्वेशानार्धं अरण्यं गतवन्तौ एकः व्याग्रः तौ उपरि आक्रमणं कृतवान्।प्राणरक्षनार्धं एकः योधः एकं वृक्षं आरूढवान्।द्वितीयः भयेन पलायनं कृतवान्।किञ्चित् समयानन्तरं तत् व्याग्रः तत् प्रदेशात् निर्गतवान्। प्रथम योधः अरण्ये तानि वस्तूनि गृहीत्वा राजम् समीपं गतवान्।अनन्तरं द्वितीययोधः अपि तानि वस्तूनि गृहीत्वा स्वस्थलं गतवान्। तत् राजः पृथक् पृथक् तौ योधौ वस्तूनाम् साधनस्य पद्दत्याः विवरणं अपेक्षितवान्। प्रथमयोधः यथा अभवत् तथा एव उक्तवान्।किन्तु द्वितीययोधः संपूर्ण भिन्नेन "अहं व्याघ्रेण सह भीशनयुद्धं कृत्वा व्याघ्रं हतं कृत्वा तानि वस्तूनि आनीतामि" - इति उक्तवान्। किन्तु तत् राजः बहुचतुरः। सः तौ योधयोः पश्चात् कतिपय गूढाचाराः अपि प्रेषितवान्। सः प्रथमयोधं चतुरङ्गबलाध्यक्षस्य अधिपतिम् नियिक्तवान्। यः चित्तशुद्दीं न प्राप्नोति सः एतस्य अत्युत्तमपदवीं अधिष्टितुं न शक्नोति - इति उद्गोषितवान्। दानम् अपर प्रमुख दैवी गुणः भवति।यदी कोऽपि सत्कर्मस्य निमित्तं अपेक्षित संपत्तिं संतोषेण विना गर्वेन ददाति चेत् तत्कर्म दानम् वक्तुं अर्हति।यः दानं भगवद्सेवा साद्रुशा अनुभवति सः एव निष्कपट दाता भवति। भौतिकदानं जानानां कृते तात्कालिक उपशमनं ददाति किन्तु अध्यात्मिक दानं भगवद्विमुखतयाः भावनायाः दूरं करोति। दैवीस्वभावस्यगुणानाम् बोदयित्वा भगवान् असूरिस्वभावानां विषये उक्तवान्।आसूरीगुणजनाः सत्प्रवर्तनस्य दुष्टप्रवर्तनस्य मध्ये अन्तरम् न जानन्ति।आधुनिककाले सर्व व्यवहाराणाम् कृते आमोदं लभति।This is called woke culture।यदी कोऽपि दुष्ट कर्माणि कुर्वन्ति चेत् अपि आक्षेपं न करणीयं।सर्व न्याय व्यवस्था शुष्कवादनस्य निमित्तं कालयापं कर्तुं इच्छन्ति।आसूरीगुणजनाः सदा विमूढभावेन वर्तन्ते। ते सदा काममोहक्रोधलोभस्य पीडिताः भवन्ति।ते जीवनपर्यन्तं तेषां आसूरी सवभावानां कारणे अनेकजनेषु शत्रुभावने व्यवहरन्ति।कथं कस्मिन्नपि शत्रुभावना उध्भवति? आसूरीगुणसंपन्नाः सर्वदा लोभेन अनुसूचित कामचिन्तनानि क्रुवन्ति।यदी तेषां कामवाञ्छाम् सफलं न भवति चेत् ते क्रोधपीडिताः भवन्ति।तत्कारणे ये तेषां कामानां अवरोधं कृतवन्तः ते शत्रवः - इति मन्यन्ते।महाभारते कुरुक्षेत्रे एकस्मिन् सन्दर्भे दुर्योदनसात्यकयोः मध्ये युद्दम् अभवत्।सात्यकिदुर्योदनौ वस्तुतः द्रोनाश्रमे उत्तमौ मित्रौ स्तः।वर्तमानस्थित्याः कृते दुर्योदनः विना पञ्चात्तापेन "अहो! एषा स्थितिः मम राज्यलोभस्य कारणेन एव संभवति खलु।", इति उक्तवान्।दुर्योदनः तस्य आसूरीप्रवृत्ति कारणेन समग्रम् परिसरं कलुषितं कृतवान्। तदैव आसूरीगुणजनाः समाजस्य कृते अतीव अपायकाराः भवन्ति।यदी वयं दैवी गुणान् वृद्दीं कुर्मः चेत् केषामपि कृते शत्रुभावना न भवति।समनकाले धर्मराजः कौरवैः सह विना शत्रुभावनेन एव युद्दम् कृतवान्।सः धर्माचरणस्य कर्तव्यस्य कृते एव युद्दम् कृतवान्।रामयणकाले अपि भगवान् श्री रामचन्द्रः रावणं तस्य शत्रुः इति न कदापि चिन्तितवान्।सः केवल क्षत्रिय इत्युक्ते स्वधर्मनिर्वहणार्धम् एव रावणवधं कृतवान्।यदा विभीषणः रावण मरणान्तरम् अन्त्येष्टिकर्माणि कर्तुं निराकरणं कृतवान् भगवान् श्री रामचन्द्रः स्वयं तद्कार्यं कर्तुं उद्युक्तवान्। किन्तु असूरिगुणजनाः सदा काममोहिताः भवन्ति।यदा तेषां कामनाः फलन्ति, ते अहङ्कारं प्राप्नुवन्ति।अहं बलवान्, शक्तिमान्, धनवान्, प्रभुः च इत्यादि मनोभावैः सदा पीडिताः भवन्ति। आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया | यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता: अहं यज्ञकर्माणि करोमि।अहं दानानि ददामि।अहं धनिकः।मम बन्धुजनाः उन्नतस्थाने स्थिताः। सद्रुशोमया कः?एतेषु भ्रमेषु तेषां जीवनं यापयन्ति।"सद्रुशोमया" - इति कस्य विशेषणं भवति?स्वयं भगवान् एव खलु। किन्तु यदी केऽपि देवानां कृते यज्ञयगकर्माणि कुर्वन्ति चेत् ते कथं आसूरीगुणानि संप्राप्यन्ति? यज्ञकर्मणाम् निर्देशनं भगवता एव दत्तं खलु ? भेरी मृदन्गभिरुतं मुख्यैःक्षागरुचन्दनैः महाजनैः समाकीर्णं सिम्हैरिव महद्वनम् । यदा श्री अन्जनेयः सीतान्वेषानार्धं लङ्कानगरं प्रविष्टवान्, सः ब्राह्मीमुहूर्ते बहवः राक्षसाः नित्यार्चानाः कुर्वन्तः आसन् द्रष्टवान्।लङ्कानगरे अन्जनेयेन यज्ञयागकर्माणि नित्यं दर्शितानि। सदा लङ्कानगरे दिव्यशङ्कगोषनिनादानि श्रोतुं शक्यन्ते। बाह्ये लङ्कानगरं अतीव रमणीयं सुन्दरं सांप्रदायभरितं मङ्गलम् च किन्तु तद्नगरं भगवद्प्रियं - इति वक्तुं कदापि न शक्यते।कथं यज्ञवैदिककर्माणि भगवद् सम्मतः न? एतस्मिन् सन्दर्भे एकं उदाहरणं वयं पश्यामः।कस्मिन्चित मधुरपदार्धे शर्करां आवश्यकम् भवति। किन्तु यदी प्रमाणाधिकं शर्करां स्थापनेन तद् मधुरपदार्धं न खादनीयम् भवति खलु।तदैव विना भक्तिभावेन पूजा भगवतः न आमोदं भवति। अद्यतनकाले सत्कर्माणि अपि स्पर्धाभावेन कतिपय जनाः कुर्वन्ति।धार्मिकसंस्थाः अपि एतेन भावनेन तेषां कार्यक्रमाणि कर्तुं इच्छन्ति।अमेरिका देशे CHURCH, देवालयाः, समजसेवा संस्थाः इतर अन्य संस्थाः कश्चन सन्दर्भेषु व्यापार विचारेण एव चालयन्ति ।भगवान सप्तादश श्लोके एतस्य उद्देश्यं एव व्यक्तं कृतवान्। आत्मसम्भाविता: स्तब्धा धनमानमदान्विता: | यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् || 17|| सज्जनाः जनाः आत्माशुद्ध्याः भगवद्कृपयाः निम्मत्तं यज्ञकर्माणि कुर्वन्ति।जगति दुष्टजनाः अपि यज्ञकर्माणि कुर्वन्ति किन्तु तेषां प्रयोजनम् कदापि भगवतः प्रसन्नता न।ते केवल दम्भेन स्वार्धेन च एव तत् सर्व कर्माणि कुर्वन्ति।समाजे ते प्रतिहारवेषेण एव उत्तमपुरुषशाद्रुश रीत्या व्यहहरन्ति किन्तु ते शास्त्रौपदेशान् न अनुशारन्ति। गुहीतस्य भवेद् वृद्दिः कीर्तितस्य भवेत् क्षयः(గూహితస్య భవేద్ వృద్ధిః కీర్తితస్య భవేత్ క్షయః)।यदी वयं सत्कर्मणाम् विषये परोचनं कुर्मः चेत् तत् फलितं क्षीणं भवति।यदी गुप्तिम् कुर्मः चेत् तत् सत्कर्मफलितं अधिकं भवति।अहन्कारबलदर्पादयः सदा कामक्रोधभावेन अन्य जनेषु दोषान्वेषणं कुर्वन्ति।एतादृशाः ते असूयापराः सर्वेषु शरीरेषु अन्तर्यामितया वर्तमानं भगवन्तं खेदयन्ति। दम्भस्वभावस्य विषये भगवान पूर्वस्मिन् सन्दर्भे अपि एकवारं उक्तवान्।दम्भस्वभावस्य करणात् वास्तविक परिसीनात्मक दृष्टिं नष्टं भवति।तत्करणेन दम्भपुरुषः सर्वदा कृत्रिमजीवनं एव यापयति। लोभात् कामं, कामात् क्रोधं, क्रोधात् क्रूरत्वं द्वेषं च संभवन्ति।आत्मविनाशकस्य त्रिविधं नरकद्वाराणि कामक्रोधलोभाः एव।नरकद्वारैः एतैः कामादिभिः त्रिभिः विवर्जितः मानवः स्वस्य हितं यदि करोति तर्हि सः अत्यन्तप्रशशनीयं उत्कृष्टं मोक्षं अधिगच्छन्ति। आसूरीप्रवृत्तिम् कथं वयं निवारणं कर्तुं शक्यामहे, एतस्य उपायं अन्ते भगवान् उक्तवान्।कतिपय जनाः "मह्यं कोपि नियमाः न वर्तन्ते, अहं यथाचित्तं तथैव जीवनं यापयामि" एतस्य भावनेन जीवन्ति। किन्तु सदा अस्माकं मनः उचितमार्गम् सूचयति - एतस्य प्रमाणं न भवति खलु।तस्मात् सर्वदा तव कार्ये अकार्ये वा विषये संदेहो भवति तदा तव शाश्त्रं प्रमाणम्। तत्र स्थितेन वाक्येन यत् प्रतिपाद्यते तदेव कार्यं कर्तुमर्हसि - एतस्य संदेशं भगवान उक्तवान्।

Chapter 17 Summary

श्री गुरुभ्यो नमः ।श्री कृष्णपरमात्मने नमः। यदा तव कार्ये अकार्ये वा विषये संदेहो भवति तदा तव शाश्त्रं प्रमाणं स्वीकारणीयं - इति भगवता शोडशोध्यास्य अन्ते उक्तः ।सप्तदशाध्यस्य आरम्बे तत्वाक्यस्य अनुषन्गिकप्रश्नं प्रुच्चन् अर्जुनः तस्य संदेहं व्यक्तं कृतवान्।जगति सर्व जनाः कस्मिँश्चित् विषये श्रद्दया एव व्यवहरन्ति।केचन जनाः शास्त्रविहित कर्माणि कुर्वन्तः दैवीसंपत्तिगुणान् वृद्दीं कुर्वन्ति।चार्वाकाः केवल भौतिकविषयेषु श्रद्दया व्यवहरन्तः भगवतः निन्दा कुर्वन्ति।धने आकर्षितजनाः तत्विषये एव मग्नैः जीवनं यापयन्तः सर्वदा श्रद्दया एव धनसम्पत्तीनाम् वृद्दीं कर्तुं मार्गाणाम् अन्वेषणम् कुर्वन्ति।केचन जनाः असूरीभावेन कामभोगविषयेषु आसक्ताः भवन्ति।ते अपि तेषां कार्यसिद्धीनाम् अतीव श्रद्दया एव परिश्रमन्ति।जनानां श्रद्दा तेषां स्वभावनुशारेण वर्तते।कोऽपि सदा सत्वगुणे व्यवहरति किन्तु तस्मै शास्त्रप्रमाणिकविषयाणां ज्ञानं न भवति।केचन जनाः सदा सामाजिक सेवा कार्याणि कुर्वन्ति, केचन मातापित्रोः सेवा श्रद्दया भक्तिभावेन एव कुर्वन्ति,केचन दानकर्माणि विना प्रतिफलाक्षेपभावेन एव कुर्वन्ति।शास्त्रज्ञानस्य अपभवितुं आसूरीप्रवृत्त्याः मार्गनिर्देशनं करोति वा - इति अस्माकं संदेहः।गणितशास्त्रे एकायाः समस्याः समाधानपद्धतयः विविध रूपेषु वर्तन्ते।यदी निर्देशित सूत्रानुशारेण परिष्कारं करोति चेत् तस्याः समस्याः परिष्कारं सुलभेन पप्तुं शक्यते।किन्तु अन्य मार्गेण अपि तस्याः समस्याः परिष्कारं कर्तुं शक्यते खलु।केचन जनाः तेषां पूर्वजन्मकर्मफलितानुशारेण सत्कर्मणां कृते आसक्ताः भवन्ति किन्तु यदी तत्कर्याणाम् निमित्तं शास्त्रनिर्देशितमार्गं अनुचितं भवति।सर्वजनाः तेषां स्वभानुशारेण श्रद्दया कर्मानुष्टानं कुर्वन्ति।यदी सत्वगुणप्रधान स्वभावं अस्ति चेत् सर्वदा देवतारधनस्य कृते आकर्षिताः भवन्ति। सा आराधना सर्वदा सत्फलितानि एव ददति।रजोगुणस्वभावाः सर्वदा यक्षाणां राक्षसानां च पूजां कुर्वन्ति।मूढाः तमोगुणस्वभावाः अध्यात्मिकसाधनस्य निमित्तं घोर भयानक च तपानि क्रुवन्ति।तानि तपानाम् फलितम् अपि जगतः दुःखप्रदकारकम् एव भवति।दृष्तान्तरूपेण भस्मासुर वृत्तान्ते तस्य तपसः अन्तिमफलितम् हानिकारकम् एव अभवत् खलु। सामान्यजनानाम् स्वभावान् के के विषयेषु आधारिताः भवन्ति? भगवान् पूर्वस्मिन् सन्दर्भेषु कथं वयम् परमात्मनि सर्वदा मनसि स्थापयित्वा तस्य प्रियाः भवितुं शक्यन्ते, एतस्य विषये उक्तवान्।भगवान् परमपावनपवित्रस्वरूपः।यदी मनसि पवित्रभवनानि न चेत्,भगवतः निज स्वरूपं क्षेत्रात् निश्चयेन बहिः गच्छति।सर्व व्रतपूजाविधानेषु वयं भगवन्तं आवाहनं कुर्मः।तस्मिन् समये वयं अतीव पवित्रभावेन तद् व्रत सम्बन्धित आहारनियमान् अनुसरयित्वा यथाशक्यं भगवतः नामस्मरणं कृत्वा संतोषेण दानानि कुर्मः।यदी अस्माकं मनसि सात्विकभावनानि न सन्ति चेत् कथं भगवान् सायाः पूजायाः निमन्त्रणं अङ्गीकरोति?भगवान् सप्तम श्लोके आहारतपयज्ञस्य त्रिविधान् विषये बोधयितवान्।कथं आहार नियमानि अस्माकं स्वभावान् प्रभावितम् करोति - इति चिन्तनीयम्।अस्माकं जीवने आहारप्रयोजनम् किं ? केवल क्षुध्बाधानिवारणं व अथवा अन्य कोऽपि प्रयोजनम् अस्ति वा? आहरम् अस्माकं कृते भोगनीयपदार्थं वा अथवा परमार्थपदार्थं वा?सर्वप्राणिनाम् कृते आहारस्य मौलिक प्रयोजनम् क्षुध्बाधानिवारणं एव खलु।सात्विकभोजनविकल्पं चिनोति चेत् सात्विकगुणाः वर्धन्ति।ये आहाराः आयुः बलम् आरोग्यं प्रीतिं च विवर्धन्ति ते अस्माकं मनसि सत्त्वगुणान् वृद्दीं कुर्वन्ति।ते आहाराः रस्या: स्निग्धा: स्थिरा हृद्याः च।ये आहाराः स्वीकृत्या पुनः कोऽपि नूतन क्लेशं न जनयति ते एव सात्विकाहाराः। दृष्टान्तरूपेण नवीन वैध्यशास्त्रे सर्व औषधेभ्यः अनेक अनुषन्गिक विपरीतपरिणामान् निश्चयेन भवन्ति।ते एकस्याः बाधायाः निवारणं कुर्वन्तः बहुइतर समस्याः उत्पन्नं कुर्वन्ति। सात्विकाहारानाम् स्वीकृत्या मानसिक संतुलितं भविष्यति तेन कारणेन एव सत्वगुणप्रधन जनाः तद् आहारं एव स्वीकर्तुं इच्छन्ति।आहरमुक्ष्यप्रयोजनम् शरीरस्य आरोग्यं संपूर्णआयुः च।तेन कारणेन मनसि भगवतः विचारानि एव स्थापनम् - इति साधु जनाः मन्यन्ते। केचन जनाः तेषां जीवनेषु आहारमेव परमप्रयोजनम् इति चिन्तयित्वा सर्वदा व्ययप्रयशान् कुर्वन्ति।ते अतीव कटु अथवा आम्ल अथवा लवण अथवा अन्य रजोगुण प्रथान आहारेषु सदा आसाक्ताः भवन्ति।ते भोजनानन्तरम् अनेक अस्वास्थ्याः अनुभवन्ति किन्तु तेषां आहारेषु विरक्थाः न भवन्ति। लोके विशेष आहाराणाम् अस्वादनं कृत्वा तद्कार्यं गौरव गर्व च कारणं - इति चिन्तयन्ति। तेन कारणेन एतेषाम् आहाराणां खादित्वा कश्चन सर्वदा अशान्तीः अनुभवन्ति। तर्हि कथं मनसि भगवतः स्वरूपं स्थापितुं शक्यन्ते।दशम श्लोके भगवान् तामसप्रियजनाः के के आहारान् इच्छन्ति एतस्य विषये उक्तवान्।भगवतः उपदेशित आहारान् सम्यक् रीत्या ज्ञात्वा वयं अस्माकं जीवनेषु केषां त्यजनम् करणीयं केषां स्वीकरणीयं एतस्य निर्णयं कर्तुं शक्यामः। भगवान् उच्छिष्ट आहारपदार्धान् अपि तामसी वर्गे स्थापितवान्।वर्तमानकाले कतिपय साम्प्रदायान् उच्छिष्ट आहारान् एव खादयन्ति - इति वयं अवलोकनं कर्तुं शक्यामः। अनन्तरं भगवान् त्रिविधानाम् यज्ञप्रवृत्तीनाम् विषये विशदी कृतवान्। "अफल आकाक्षाभिः" इत्युक्ते विना प्रतिफालापेक्षभावेन यज्ञकर्माणि करणीयं आवश्यकम्।यज्ञकर्तकः वेदविहितानुशारेण एव यज्ञ कर्माणि करणीयं।यदी यज्ञकर्माणि भगवद्समर्पण भावेन करोति चेत् ते सत्वगुणान् प्रवृद्दीं कुर्वन्ति।यदी कोऽपि प्रतिफालापेक्षभावेन यज्ञकर्माणि करोति चेत् तत् कर्म विनिमयकर्म एव भवति। भगवान् दंभप्रवृत्त्याः विषये बहुवारं पूर्वस्मिन् सन्दर्भेषु कथयतिवान्।वर्तमानकाले बहून् यज्ञकर्माणि दम्भेन आडम्बरेण आचरन्ति।ते रोजोगुणान् एव वर्धयन्ति।तमोगुण जनाः विना श्रद्दाविश्वाशेन शास्त्रविरुद्दभावेन यज्ञयागकर्माणि कुर्वन्ति।तत् यज्ञ विहित दानदक्षिण कार्याणि अपि न आचरन्ति।ते यथाचित्तं अहन्कारेण गर्वेण च यज्ञ कार्याणि कुर्वन्ति।दृष्तान्तरूपेण वर्तमानकाले बहवः संस्थाः उच्चैः संगीतस्यध्वनैः दीपोत्स्वैः यज्ञकर्माणि कृत्वा शास्त्रविधान् न आचरन्ति। अनन्तरं भगवान् चतुर्दशश्लोकात् षोडशश्लोक प्रति त्रिविधाः तपसाम् विषये अपि उक्तवान्।परमेश्वरस्य ब्राह्मणानां गुरूणाम् च पूजनम्, शौच आर्जव मार्धव ब्रह्मचर्य अहिंसा च इत्यादि गुणानां साधनं शारीरक तपांसि कथ्यते। सत्यम् ब्रूयात प्रियं ब्रूयान सत्यम् अप्रियं प्रियं च नानृतं ब्रूयात एष धर्मः सनातनः इति मन्युस्मृत्या उक्तम्।द्वितीय प्रकार तपः वाक्तपः भवति।अनुद्वेगकरं सत्यं प्रियहितं च यत् वाक्यं स्वाध्याभ्यसनं च एव वाङ्ग्मयं तपः उच्च्यते। केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वलाः न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः। वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।। इति भ्रत्रुहरि सुभाषितं अस्माकं कृते वाक्शुद्द्याः महत्वं बोधयति।एतत् श्लोकं AIR माध्यमात् सुपरिचितम् खलु।मानसिक तपः तृतीय प्रकारः भवति।मनः अस्माकं कृते प्रिय मित्रः अथवा दुष्ट शत्रुः भवितुं अर्हति।वयं कथं अस्माकं मनः शिक्षणं कुर्मः तदनुशारेण एव परिवर्तते।यदी वयं अधिकतर द्वेष प्रतिकूल विनाशक दूषणभरित च भावनाः पूरितं कुर्मः चेत् अस्माकं मनः भयानकशत्रुः भवति।तत्स्थाने यदी वयं सदा पवित्रभावनान् स्थापयामः चेत् अस्माकं मनः अस्माकं कृते प्रिय मित्रः भवितुं शक्यते।ये भक्तिश्रद्दया एतानि त्रीणि तपांसि कुर्वन्ति चेत् ते सात्वगुनान् वृद्दीं कुर्वन्ति।कीर्तिप्रतिष्ठानाम् कृते कुर्वन्ति चेत् ते रजोगुणस्थिताः।यदी कोऽपि तेषां शरीस्य हिंसा कुर्वन् अन्यैतर प्राणिनां क्षोभयन्ति चेत् ते तमोगुणस्थिताः। यदी कोऽपि दानकर्म तस्य विहित कर्तव्यभावनेन विना प्रतिफालापेक्षभावेन च कुर्वन्ति चेत् तद् सत्वगुनदानं वक्तुं शक्यते।"दानमेकम् कलौयुगे" - कलियुगे दानमेव अन्तःकरण शुद्धये परमोत्तम मार्गं - इति भविष्य पुराणेन उक्तम्।अमेरिका राष्ट्रे केचन जनाः केवल tax benefit कृते एव कतिपय दानानि कुर्वन्ति।ते सर्वे फलापेक्षा दानानि एव खलु ।केचन जनाः दानं दत्वा बहुव्यकुलिताः भवन्ति।तेषां वितरणानाम् कृते पुनः पुनः विचारं कुर्वन्ति।केचन जनाः तेषां BLACK MONEY एव दानं कृत्वा दम्भेन व्यवहरन्ति।तानि दानानि रजो अथवा तमो गुणान् एव वृद्दीं कुर्वन्ति। अन्ते भगवान् त्रिर्विंशतित्तम श्लोकतः अश्तविम्स्तित्तम श्लोकपर्यन्तं "ॐ तत् सत्" पदानाम् विवरणं दत्तवान्।ओंकार शब्दः भगवतः निराकारअस्थित्व चिह्नं अस्ति।तत् शब्दः सनातनः।षष्टविम्सति सप्तविम्सति श्लोकयोः भगवान् सत् शब्दस्य वर्णनं कृतवान।सत् शब्दस्य अनेक अर्थाः सन्ति।षष्ट सप्त विस्तित्तं श्लोकयोः सत् शब्दस्य विवरणं भगवान् कृष्णेन दत्तम्।सत् इत्युक्ते मङ्गलः सनातनः नित्यः शुभः च।भगवतः संकल्पं सत्यं भवति।सृष्टिस्थितिलयस्थितिषु भगवान् एव सत्रूपेण तिष्टति।यज्ञाय तपसे दानाय च या स्थितिः क्रियते सापि सत् इति कथ्यते।अश्रद्दया हुतं दत्तं तप्तं कृतं च यत् असत् इति उच्च्यते तत् प्रेत्य न इह नो - इति भगवान् अध्यायस्य अन्ते उक्तवान् ।