Thursday, May 11, 2023
Chapter 15 Bhagavad Geeta
श्री गुरुभ्यो नमः ।श्री कृष्णपरमात्मने नमः।
चतुर्दश अध्याये भगवान् गुणत्रय स्वभावान् बोधयित्वा पुरुषोत्तम लक्षणानि विस्तारेण विवरितुं निश्चयितवान्।सामान्येन इतः पर्यन्तं भगवान् प्रति अध्यायस्य ज्ञानविशेषान् अर्जुनस्य प्रश्नानाम् उत्तर विधानेन एव अनुग्रहितवान्।किन्तु एतस्य अध्यायस्य पूर्वरङ्गप्रस्थावना भगवान् एव स्वयं कल्पयतिवान्।भगवद्गीतायाः ज्ञानषष्ठकभागे क्षेत्रक्षेत्रज्ञस्य गुणत्रयस्य च ज्ञानं दत्वा भगवान् "एतस्य ज्ञानं अतीव गम्भीरविषयः। एते सामान्यजनाः एतस्य ज्ञानस्य प्राप्त्वा संसारचक्रविमुक्ताः अनासक्ताः भवन्ति वा?" - इति चिन्तयित्वा अस्माकं कृते बहुना दयाभावेन भवभयनिवराणार्धं स्वयं तस्य पुरुषोत्तम स्वरूपस्य विवरणं दातुं निश्चयितवान्।भगवान् एतत् सर्वसंसारजगतः तुलना अश्वत्थवृक्षेण सह कृतवान्।एतत् अश्वत्थवृक्षः बहुविशालः अस्ति।एतस्मिन् संसारे स्थिताः जनाः कदापि एतस्य वृक्षस्य निजस्वरूपं ज्ञातुं न शक्यन्ते।
वृक्षस्य मूलं अथवा परमात्मा ऊर्ध्व उन्नत च स्थाने निःसङ्गने अस्ति।यथा वयं सर्वे जानाति,वृक्षस्य अस्थित्वं विना मूलेन न संभवति तथा एव एतद् सकलसंसारं परमात्मना स्रुजितं।किन्तु सः संसारस्य विषयेषु सदा अनासक्तेन एव व्यवहरति। ये जनाः एतस्य अश्वत्तवृक्षस्य मूलस्वरूपं जानाति ते जन्ममृत्युराहित्याः भवन्ति।यदी भगवान् अव्यय अनन्त महान् च वृक्षस्य ऊर्ध्वमूले अदर्शन रूपेण स्थितः चेत् कथं सामान्य जनाः तस्य दर्शनं कर्तुं शक्यन्ते? किं साधनं भवति? ये जनाः अनासक्तेन वैराग्य भावेन अश्वत्थवृक्षस्य छिन्नं करोति ते एव एतस्य वृक्षस्य निजस्वरूपं ज्ञातुं शक्यन्ते।संसार चक्रे नितरां बध्नाः जीवाः अश्वत्थ वृक्षस्य स्वभावं कदापि न ज्ञातुं शक्यन्ते।एतत् वृक्षस्य पल्लवाः(इत्युक्ते इन्द्रिय वस्तूनि) तेभ्यः सर्वदा अतीव रोचते।ते एतेषु विषयेषु आकर्षिताः भवन्ति वर्तन्ते च।तेषां काम्यफलसिद्दर्ध्यं बहुपरिश्रमं कुर्वन्ति।किन्तु तानि परिश्रमानि सर्वं अश्वत्थ वृक्षस्य वृद्दीं एव करोति।ते एतस्य विषयस्य अज्ञानेन व्यवहरन्ति।एतस्य अश्वत्थ वृक्षस्य स्वरूपं कतिपय पुरुषाः एव अवगच्छन्ति।भौतिकलालसानाम् असक्ताः जनाः केवल वृक्षस्य वृद्दीं एव कुर्वति,ते वृक्षस्य मूलानि अशेषरीत्या पुनः पृथ्वीम् स्थापयन्ति।अस्य अश्वत्थावृक्षस्य ऊर्ध्वमूलत्वादिकं यत्स्वरूपं पूर्वमुक्तं तत् केनोपि ज्ञातुं न शक्यते तथा अस्य आदिः मध्यः अन्तश्च ज्ञातुं न शक्यते।तर्हि कथं एतयाः समस्यायाः निवृत्तिं वयं प्राप्नुमः।तादृशं एनम् अनिष्टफलाजनकं अश्वत्थावृक्षं वैराग्यशश्त्रेण विनाश्य सर्वेऽपि पुरुषाः तं महापुरुषं ध्यायन्तः तादृशं स्थानं शोधयेयुः यत् स्थानं प्राप्ताः पुनः न संसारं प्राप्नुवन्ति, यस्मादेव च अयमनादिः संसारः संपन्नो वर्तते।
"दुष्करं निष्प्रतिद्वन्द्वं" - यदा अन्जनेयः समुद्रलङ्घनम् कर्तुं उपक्रमोति, महर्षि वाल्मिकी तत्कार्यस्य वर्णनं एतेन कृतवान्।समुद्रलङ्घनम्, लङ्का गमनं, सीतान्वेषणं च एताः बाह्य अर्थाः भवन्ति। किन्तु अन्तर्लीनअर्थः श्री अन्जनेयः महाशक्तिस्वरूपिणी परमात्मातत्वस्य अन्वेषणम् कर्तुं प्रयत्नं कृतवान्।
अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते |
इति मत्वा भजन्ते मां बुधा भावसमन्विता: ||
भगवान् दशम अध्याये अष्टम श्लोके इति स्वयं प्रतिपादितवान्।अहं एव भौतिक अध्यात्मिक सृष्टेः मूलं अस्मि। सर्वम मद् एव जनयति।ये जनाः एतस्य विषयस्य संपूर्ण ज्ञानं धारयन्ति ते मां विश्वाशेन भक्त्या च भजन्ति। भगवतः मूल स्वरूपं कथं भवति। तेलुगु भाषायां भागवतकथायाः अनुवादनं महाकवि श्री पोतानमात्येन कृतं। गजेन्द्र मोक्षस्य घटनायाम् गजराजः अद्भुत रीत्य परमात्मनः मूलस्वरूपस्य वर्णानां कृतवान्
ఎవ్వని చేఁ జనించు జగ? మెవ్వని లోపల నుండు లీనమై?
ఎవ్వని యందు డిందు? పరమేశ్వరుడెవ్వడు? మూల కారణం
బెవ్వ? డనాది మధ్య లయుడెవ్వడు? సర్వము తానె యైన వా
డెవ్వడు? వాని నాత్మ భవు నీశ్వరు నే శరణంబు వేడెదన్ !!
केन सर्व जगत् जन्यते?कस्मिन् देहे सर्व जगत् अन्तर्भागं भवति।परमेश्वरः कः।मूलकारणं किम्।आदिमध्यलय कारकः कः।सकल जगतः दायित्वं कः निर्वहति।साद्रुशस्य परमेश्वरस्य शरणं अहं प्रार्थयामि।
के के जनाः वृक्षस्य मूलाधारं भगवन्तं प्राप्नुवन्ति? येषाम् अभिमानः नास्ति, येषु विशायसक्तिरूपं कश्मलं नास्ति, ये सर्वदा आत्मध्याने रताः सन्ति, येषां विषयेषु तृष्णा नास्ति, ये शीतोष्णयोः सुखदुःखयोश्च निर्विकारः ते एव धीराः इमं अश्त्थावृक्षस्य विनाश्य तदव्ययं पदं प्राप्तुम् अर्हन्ति।परमपदस्य प्राप्तिं One Way Ticket एव।ते पुनः भौतिक लोकं कदापि न प्रत्यागच्छन्ति।
अस्माकं देहे परमात्मनः तत्वं जीवात्मा उपस्थितः।अज्ञान जनाः सर्वदा इन्द्रियभोगानां कृते एव तेषां जीवनं यापयन्ति।यदा जीवात्मा देहात् बहिः गच्छति तदा एव ते तद् विषयं अवलोकयन्ति।ज्ञानचक्षुषः एव तत् दर्शनं कर्तुं शक्यन्ते।सामान्यतः अस्माकं जीवनेषु सूर्यः चन्द्रः अग्निः च प्रकाशं ददति।किन्तु तेषां निज प्रकाशकारकः कः।स्वयं भगवान् एव।श्री विष्णु सहस्रनामे अपि सादृश प्रतिपादनम् अस्ति।
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्दः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ 30 ॥
भगवान् एव सूर्यचन्द्रनक्षत्राणां प्रकाशात्मा भवति।सूर्यः स्वयंप्रकाशकः, चन्द्रः परावर्तकप्रकशकः - इति वयं सर्वे विज्ञानपाठेषु पठामः।किन्तु ते सर्वे यावत् पर्यन्तं भगवतः अनुग्रहम अस्ति तावत् पर्यन्तं एव प्रकशन्ति।वैज्ञानिकाः अपि समान प्रतिपादनम् एव कुर्वन्ति खलु।एकस्मिन् काले सूर्यः अपि अप्रकाशक् ग्रहः भविष्यति - इति गणयन्ति।अर्थात्, तस्मिन् समये भगवतः प्रकाशं सूर्यात् निष्क्रामति।
अनन्तरं त्रयोदश श्लोके भगवान् "अहं एव समस्त जगतः पुष्टिकारकः" - इति उक्तवान् ।पुनः विष्णु सहस्रनामे अपि सादृश उल्लेखनम् अस्ति।
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ 31 ॥
भगवान् एव समस्त सृष्टेः अन्नप्रदातः। भगवान् एव सकल विविधायाः आहारानां पाचनं करोति।भगवान् सर्वसक्तिमयः सर्वस्वतन्त्रः च।तस्य कृते कोऽपि साध्यासाध्य परिमितीः न भवति।वयं सर्वे अस्माकं जीवनेषु कोऽपि धनिकस्य, राजनीत्ज्ञस्य, उन्नतअधिकारस्य च इत्यादि कृपा अज्ञानेन अपेक्षन्ति।यदी अस्माकं कृते भगवतः कृपा अस्ति चेत् सर्वकार्येषु विजयं प्राप्नुवन्ति। रामायणे, यदा विभीषणः रामस्य शरणागतिम् कृतवान्, भगवान् रामः विभीषणस्य कृते रज्याधिकारस्य वरं प्रसादितवान्। सुग्रीवः लक्ष्मणः च इत्यादि किञ्चित् आश्चर्येण, युद्दे जयापजयस्य कथं वयं निश्चयेन निर्णयं कर्तुं शक्यन्ते - इति पृच्छतिवन्तः। यदी अहं लङ्का नगरस्य विजयं न प्राप्नोति चेत्,अयोध्या राज्यस्य पठाभिषेकं करिष्यामि - इति उक्त्वा, यदी तदपि न संभवति चेत् विभीषणस्य कृते परमपदस्य अभयं ददामि - इति उक्तवान्।भगवतः कृपायाः कोऽपि सीमा न भवति।एतस्मिन् सन्दर्भे तेलुगु भगवथकथायां गजेन्द्र मोक्ष घटनायाः अन्य एकपद्यस्य प्रस्थावना अहं पुनः एक वारं कर्तुं इच्छामि।
సిరికిం జెప్పడు శంఖ చక్ర యుగముం చేదోయి సంధింప డే
పరివారంబును జీర డభ్రగపతిన్ మన్నింపడా కర్ణికాం
తర ధమ్మిల్లము చక్కనొత్తడు వివాద ప్రోద్ధిత శ్రీ కుచో
పరి చేలాంచలమైన వీడడు గజప్రాణా వనోత్సాహి యై !!
श्री महा विष्णुः यदा गजेन्द्रः स्वस्य शरणागतिं कृतवान्, सः लक्ष्म्या सह किमपि न कथयित्वा, तस्य आयधानि शङ्कागदाचक्राणि न स्वीकृत्या वैकुण्ठलोकात् तवरितेन अतीव उत्साहेन च गजेन्द्रस्य रक्षणस्य कृते आरब्धवान्।तस्मिन् समये लक्ष्म्याः शाटिका विष्णोः हस्त उपरि अस्ति, किन्तु सः शाटिका अपि न दूरी कृतवान्।
प्रह्लादरक्ष्णार्धं सकल समीकरणानि संयोजयित्वा भगवान् नरसिंह अवतारं स्वीकृत्या हिरन्यकशिपस्य निर्मूलनं कृतवान्।अन्य एकस्मिन् सन्दर्भे, मार्कण्डस्य अल्पआयुः अपि न गणयित्वा परमेश्वरः यमं निवारयित्वा तस्य भक्तस्य रक्षणं कृतवान् खलु।अहं नित्यमुक्त्वात् क्षरं पुरुषं अतिक्रान्तः इति पुरुषोऽस्मि।नियमक्त्वात् अक्षरपुरुषात् अत्तमः इति उत्तमोऽप्यस्मि।तदेवं पुरुषश्च उत्तमस्च इति हेतोः लोके वेदे च पुरुषोत्तमः इति प्रसिद्दं गतोऽस्मि - इति अध्यास्य अन्ते भगवान् बोधितवान्
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment