Monday, April 17, 2023

Chapter 14 Bhagavad Geeta

श्री गुरुभ्यो नमः ।श्री कृष्णपरमात्मने नमः। मम भावकथनस्य आदौ अहं एका कथा वक्तुं इच्छामि। पूर्वस्मिन् काले एकः काष्ठतक्षकः एकस्मिन् ग्रामे निवसति स्म। सः अतीव दरिद्रः। सः तस्य दरिद्रस्य स्थितिं कारणात् बहु व्याकुलितः अभवत्।सः एकस्मिन् दिने एकेन सदगुरुणा सह तस्य बाधा विषये प्रस्थावितवान्। तत् गुरुः बहु दयालुः स्म। सः गुरुः दयया भावनया सह काष्ठतक्षकस्य दारिद्रस्य निवारणस्य निमित्तं एकं उपदेशं दत्तवान्। सः एकस्य अरण्यमार्गस्य निर्देशनं सूचयित्वा "एषे मार्गे अग्रे गच्छतु, शुभं भूयात्" - इति संदेशं दत्तवान्। काष्ठतक्षकः संतोषेण तस्मिन् मार्गे अधिगच्छति स्म।यथा तत् मार्गे किञ्चित् दूरं प्रचलतिवान् सः सुगन्धबरित दिव्य चन्दन वृक्षाः पश्चति स्म।सः आनन्देन यावत् आवश्यकम् तावत् चन्दन वृक्षस्य शाकान् छिन्नं कृत्वा तस्य स्वगृहं नीत्वा अधिक धनं आर्जितवान्।सः तद् कारणात् दारिद्रस्य विमुक्तः अभवत्। किञ्चित् दिनानन्तरं सः पुनः गुरोः उपदेशं स्मरति स्म।तत् अरण्यमार्गे पुनः अग्रे गन्तुं निर्णयं क्रुतवान्।अस्मिन् समये सः यदा तत् मार्गे किञ्चित् अधिकं दूरं गतवान् तदा रजत खनि दर्शितवान्।सः पुनः यथाचित्तम् रजत संपदानि स्व्ग्रहुम् नीत्वा अधिक धनसमुपार्जनम् कृतवान्।अनन्तरं सः तद् नगरे प्रमुख धनिकश्रेने स्थितवान्। किञ्चित् समयानन्तरं सः पुनः तत् अरण्यमार्गे गत्वा सुवर्णसम्पदान् प्राप्तवान्।अनन्तरं अपि सः विना विश्रामेण पुनः तत् अरण्य मार्गे गत्वा दिव्य वज्र सम्पदान् प्राप्तवान्।यदी वयं तत् काष्ठतक्षकस्य प्रगतेः अवलोकनं करोति चेत्, तस्य सफलतायाः मूल करणं किं?सः अन्तर्दशायां लब्ध्वा लाभानि न गणयित्वा तस्य संपादान्वेषणं सन्ततम् कृतवान्।सादृश प्रकारेण एव भगवान् आदौ कर्म योगस्य ज्ञानं बोधयित्वा अस्माकं मनसि चन्दन सुगन्धा भावनाः स्थापितवान्।अनन्तरं भक्तियोगस्य वैशिषस्य उपदेशं कृत्वा अस्माकं कृते रजत सुवर्ण च सम्पदान् प्रशादितवान्। भगवान् बहुदयालुः।अग्रे भगवान् अमूल्य वज्र सादृश ज्ञान योगस्य महिमाः अस्माकं कृते बोधितुं निस्चयितवान्। तत् क्रमे भगवान् क्षेत्रक्षेत्रेग्नस्य ज्ञानं दत्वा गुण त्रय विशिष्टं बोधितुं उद्युक्तवान्। यथा सप्तम अष्टम च अध्याययोः विवरानुसारेण भौतिक जगत् अपि सृष्टिस्थितिलयस्य चक्रं अनुसरति।लय काले भौतिक शक्तिः प्रकृतिः च भगवति अव्यक्त रूपेण स्थितम् भवति।यदा भगवान् स्रुष्ट्याः कार्यक्रमस्य आरम्बं करोति, प्रकृतिः अपि भगवद् आदेशानुशारेण विभिन्न जीव स्वरूपाणि सृष्टिं करोति।किन्तु भगवान् एव एषायाः सर्वस्रुष्ट्याः बीजप्रदाता अस्ति।प्रकृत्याः सृजित सर्वप्राणिनः त्रीणि गुणैः सह बद्दाः भवन्ति।भगवान् एतस्मिन् अध्याये एतानि त्रीणि गुणानां विवरणं दत्तवान्।सत्व गुणः रजोतमयोः गुनयोः अपेक्षया उत्तमगुणः भवति।सत्वं प्रकाशकं निर्मलम् अनामयं च।सुख सङ्गेन ज्ञान सङ्गेन च बध्नाति।किन्तु कोऽपि नित्यं सत्वगुणेन जीवनं कर्तुं शक्यते वा?यदी कश्चन पुन्यपुरुषाः सत्यलोकं गन्तुं शक्यन्ते तर्ही ते निश्चयेन सत्व गुणाः एव भवन्ति खलु। किन्तु कथं भीष्मस्य मातापितरौ, शान्तनुगङ्गे तमो गुणेन सत्यलोके अव्यहरिताम्?ताभ्याम् काम प्रवृत्तिभ्याम् कारणाभ्याम् एव तौ भूलोके अजनयताम् खलु।भृघुमहर्षेः वृत्तान्तं अपि अन्य एकं उदाहरणं अस्ति।सः महा तपोशक्तिसंपन्नः।किन्तु सः सत्य लोके कैलाशे च क्रोधात् कारणात् ब्रह्मशिवयोः दोषान् परिगाणितवान्।श्री महाविष्णुः भृघुमहर्षेः गर्वभङ्गं कृत्वा तस्य तमोगुणस्थित्याः विनष्टं कृतवान्। सत्वगुणः उत्तमः गुणः किन्तु तत् गुणः अपि भौतिकप्रकृत्याः परिधिना एव वर्तते। अनन्तरं भगवान् रजोगुणस्य व्यवहारस्य विषये उक्तवान्।रजोगुणः सदा भौतिकअस्तित्वविषयैः बध्नाति।प्रपन्चिक व्यवहाराः एव रजोगुणस्य प्राधान्यं भवति।रजोगुणः इन्द्रियभोगासक्त्याः अभिरुच्याः वृद्दीं करोति।रजोगुनप्रधानपुरुषाः श्रीलता क्षमता वृत्ति च विशयेषु तल्लीनाः भवन्ति।रजो गुणस्य तत्वं सम्यक् रीत्य अवगन्तुं विश्वामित्रस्य वृत्तान्तं एकवारं वयं पश्यामः।विश्वामित्रस्य पूर्वाश्र्मनामः कौशिकः, सः एकः राजः।सः एकस्मिन् समये ब्रह्मर्षि वशिष्टस्य आश्रमं गतवान्।वशिष्टः कौशिकस्य सर्वसैन्यानाम् कृते तत्क्षणम् विशेष अथिति सत्काराणि कृतवान्।कौशिकः आश्चर्यं अनुभूत्वा - "कथं भवान् एतेषाम् सर्वेषाम् व्यवस्था कृतवान्" - इति अप्रुच्चत्।"मम आश्रमे कामधेनोः पुत्री नन्दिनी नाम धेनु निवसति स्म।सायाः अमोघदिव्यशक्त्या एतानि सर्वाणि कर्तुं शक्नोमि" - वशिष्टः प्रत्युत्तरं दत्तवान्।कौशिकः नन्दिनीं अपेक्षितवान्।किन्तु नन्दिनी स्वीय रक्षणार्थं अशेषवीराणाम् सृष्टिं कृत्वा कौशिकस्य पराजयं कृतवती।कौशिकः लज्जितभावेन प्रतीकार भावेन च दिव्यअश्त्रशाश्त्रार्थं शिवस्य घोरतपं कृतवान्। भगवान् शिवः सकल अश्त्रशस्त्र सम्पदान् कौशिकाय प्रसादितवान्।कौशिकः नूतन वरबलेन परिपूर्ण आत्मविश्वाशेन पुनः वशिष्टेन सह युद्दं कर्तुं तस्य आश्रमं गतवान्।किन्तु वशिष्टस्य तपबलस्य कारणेन कौशिकस्य सर्वअश्त्राणि निरर्धकं अभवन्। कौशिकः खिन्नः अभवत्।अहमपि वशिष्टसादृशं ब्रह्मर्षि स्थरं प्राप्तुं प्रयत्नं करिष्यामि - एतस्य निर्णयं कृत्वा पुनः कौशिकः तपं कर्तुं उद्युक्तवान्।कौशिकस्य तपोमार्गस्य निर्णयं सत्वमेव किन्तु तस्य लक्ष्यं केवल वशिष्टस्य अपेक्षया उन्नत स्थरं प्राप्तुं एव।सः स्पर्धाभावेन इत्युक्ये रजोगुणेन एव तपोबलम् अर्जितुं निश्चयितवान्।कौशिकः पुनः तीव्रतपं कृत्वा ब्रमर्षि स्थर वरं भगवान् ब्राह्मम् आर्थितवान्।किन्तु भगवान् ब्रह्म कौशिकं "राजर्षि" इति सम्बोदितवान्।कौशिकः अनेक वर्षाणि तीव्रतपं कृतवान्।सः तत् मार्गे अनेक प्रतिबन्धकानि विघ्नाः च अनुभूतवान्।अन्ते सः पूर्वदिशे गत्वा अद्भुततपं कृतवान्।सः महिनान्वित गायत्री मन्त्रस्य उपदेशं सकलजनानं कृते कृत्वा "विश्वामित्रः" अभवत्।अनन्तरं तस्य मनसि वशिष्टस्य चिन्ता न आसीत्।एकस्मिन् दिने यदा विश्वामित्रः अतीव बुभुक्षाम् अनुभूतवान्, इन्द्रः तस्य परीक्षां कर्तुं विश्वामित्रं आहारं याचितवान्।सः इन्द्राय अन्नं दत्तवान्।विश्वामित्रः गुणातीतः अभवत्।भगवान् ब्रह्मः विश्वामित्रं सादरेण "ब्रह्मर्षि" इति सम्बोदितवान्।अनन्तरं वशिष्टः अपि मित्रभावेन विश्वामित्रेण सह व्यवहरितवान्।महाभारत काले कर्णः अपि तस्य जीवितपर्यन्तं अर्जुनेन सह रजो भावेन एव व्यवहरितवान्।वस्तुतः कर्णः अपि सकलगुनसंपन्नः योधः च। किन्तु तस्य सर्वशक्तिं केवल मात्सर्यभावनया एव यापितवान्।तदैव कर्णस्य पतनस्य कारणं अभवत्। अनन्तरं भगवान् तमोगुणस्य लक्षाणानि अपि वर्णितवान्।तमोगुणः सत्वगुणस्य व्यतिरेकः अस्ति।तमोगुणेन बद्धत जनाः निद्रा मान्द्य हिंसा द्युत इत्याति विषयेषु सदा आसक्ताः भवन्ति।ते सत्यान्वेषणं कदापि न कुर्वन्ति। अस्माकं इतुक्ते सर्व प्राणिनां क्षेत्रज्ञाः एतानि त्रीणि गुणैः सह सान्गत्यं कुर्वन्ति।दृष्टान्तरूपेण अहं (यदी भारतराष्ट्रे स्थितम् चेत्) प्रातः काले भगवद्गीतायाः कक्षा समये सत्वगुणेन व्यवहरितुम् इच्छामि।मध्यान्न काले तमोगुनेन आलस्यः मन्दः अस्मि।सायङ्काले कार्यालस्य समये रजोगुणेन व्यवहारम् करोमि। सत्वस्य फलं सात्त्विकं निर्मलं च। रजसः फलं दुःखं भवति। तमसः फलं अज्ञानं भवति।यदी कोऽपि क्षात्रः उत्तमम् परिश्रमं करोति चेत् उत्तमायाः कलाशालायाः प्रवेशं प्राप्नोति।यदी अधमं परिश्रमं करोति चेत् अधमाः कलशालायाः प्रवेशं एव प्राप्नोति।भागवतेन इति उक्तं सत्त्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः। तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः।। सत्वगुणोपाशनाः ऊर्ध्वलोकानि गच्छन्ति।रजोगुनसंपन्नाः पुनः भूलोकं आगछन्ति।तमोगुणशापग्रस्ताः अधोलोकानि एव प्राप्नुवन्ति।तर्हि भगवन्तं कः प्राप्नोति?जगति सर्व वस्तूनि एतैः त्रिगुणैः बध्नन्ति।किन्तु भगवतः नामानि, गुणाः, रूपाणि च एव गुणातीतं भवन्ति।ये तेषां मनः सदा भगवतः अध्यात्मिक क्षेत्रे स्थापयन्ति ते एव गुणातीतः भवितुं शक्यन्ते।ये पुन्यजनाः एतषां गुनत्रयानां अतीताः भवन्ति ते एषया मायया न पीडिताः वर्तन्ते।एतस्य दिव्य उपदेशं श्रुत्वा अर्जुनः गुणातीतास्य लक्षणानां ज्ञातुं इच्छतिवान्।समदु:खसुख:, स्वस्थ: , समलोष्टाश्मकाञ्चन:, तुल्यप्रियाप्रियः, धीरः, तुल्यनिन्दात्मसंस्तुति:, मानापमानयोः तुल्यः, मित्रारिपक्षयोः तुल्यः, सर्वारम्भपरित्यागी च गुणैः सह न परिग्रहन्ति - इति भगवान उक्तवान्। भगवान् श्री राम चन्द्रस्य कृते एकस्मिन् दिने दसरथः राज्य पत्तभिषेकं गोशितवान्।अग्रिमदिने वनवाशादेशं आदेशितवान्।श्री रामचन्द्रः द्वौ निर्णयौ समनरीत्या एव अङ्गीकृतवान्।इति समलोष्टाश्मकाञ्चनस्य लक्षणं खलु। अन्ते "अहं ब्रह्मणः, नाशरहितस्य मोक्षस्य, शाश्वतस्य च धर्मस्य, दुःखरहितस्य, सुखस्य च प्रतिष्ठा अस्मि तस्मात् हेतोः तादृशः पुरुषः ब्रह्मभूयाय कल्पते इति सन्मया पूर्वमुक्तं तत् युक्तमेव" - इति भगवान् उक्तवान्।

No comments:

Post a Comment