Thursday, December 29, 2022
Chapter 11 - Sanskrit
श्री गुरुभ्यो नमः। श्री कृष्ण परमात्मने नमः
दशमोध्याये श्री कृष्णस्य विभूतीन् श्रुत्वा अर्जुनः अतीव संतोषं अनुभूतवान्। तस्य मोहं अपि अन्तं अभवत्।भगवान् श्री कृष्णः केवलं तस्य प्रियमित्रः न, सः सर्व विश्वानाम् ऐश्वर्याणाम् मूलकारणः - एतस्य ज्ञानं अपि अधीतवान्।एतस्य अध्यायस्य प्रारम्भे अर्जुनः श्री कृष्णस्य प्रेमादरणस्य कृते कृतज्ञता भावेन अञ्जलिं कुर्वन् तस्य भाषणं आरम्बं कृतवान्।
सर्वजगतः श्रुष्टि स्थिति लयाणां मूलकारणं श्री कृष्णः एव - एतद् विश्वाशं कृत्वा अर्जुनः भगवतः कीर्तनं करोति।अर्जुनः द्वितीय श्लोके कृष्णं "कमल पत्राक्ष" एतेन सम्बोधनेन कीर्तयतिवान्।सादृश कीर्तनं रामस्य महा भक्तः श्री अन्जनेयः अपि रामायण काव्ये सुन्दर काण्डे कृतवान्।यदा आन्जनेयः "अहं रामदूतः" - इति प्रकटितवान् सीता महासाध्वि रामस्य लक्षणानि व्यक्तीकर्तुं पृच्छति।
रामः कमल पत्राक्षः सर्व भूत मनो हरः |
रूप दाक्षिण्य सम्पन्नः प्रसूतो जनकात्मजे||
एतेन प्रकारेण अन्जनेयः रामस्य श्लाघनं कृतवान्।कमलपत्रे अक्षिणी यस्य सः - कमलपत्राक्षः।एतद् लक्षणं केवल महा पुरुषस्य चिह्नं भवति।इति अहं मन्ये।अर्जुनः कृष्णस्य दिव्य विभूतीनाम् महिम्नः श्रुत्वा भगवतः विश्वरूप संदर्शनं कर्तुं इच्छतिवान्।किन्तु तद् विज्ञापनं अर्जुनः बहुना आदरेण कृतवान्।यदी अहं भवतः परमोत्रुकृष्ट रूपं दृष्टुं योग्यः चेत् कृपया मह्यं तद् वरं ददातु - एतस्य विज्ञापनं अर्जुनः चतुर्थ श्लोके कृतवान्|
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् || 4||
अर्जुनः दसम अध्यायस्य सप्तादस श्लोके, कृष्णं योगीं नामेन सम्बोधितवान्।अर्जुनेन भगवतः दिव्यस्वरूपस्य महिम्नः इदानीं सम्यक् अवगतः। तत् कारणेन अर्जुनः एतस्मिन् श्लोके भगवन्तं "योगीश्वर" - इति सम्बोधितवान्।
अस्माकं अनुग्रहयोग्यता कः निर्णयति?यद्यपि वयं कोऽपि प्रयोजनस्य कृते तीव्र प्रयत्नं कुर्मः, यदी तस्याम् कामनायाम् नम्रता न भवति चेत् भगवान् निश्चयेन तद् संपूर्ण फलितं न ददाति। इतिहासे बहवः जनाः तेषाम् इष्टकाम्यसिद्दयर्थं उद्धततपः कृतवन्तः। हिरण्यकशिपः रावणः इत्यादि इतर राक्षसाः सर्वे अमरत्वप्राप्तिं तपः कृतवन्तः। किन्तु भगवान् तेषां अहन्कारप्रवृत्तिं गणयित्वा अमरत्ववरप्रदानं न प्रसिदितवान्।किन्तु यदा विभीषणः सदा धर्ममार्गस्य जीवनस्य वरं आकाङ्क्षयतिवान्, भगवान् तस्य कृते " चिरञ्जीवत्वं" अनुग्रहितवान्।नवमश्लोकतः चतुर्थदसश्लोक पर्यन्तं संजयः भगवतः विश्वरूपस्य वर्णनं विस्तारेन कृतवान्।भगवतः विश्वरूपं कथं भवति।भगवति ब्रह्माण्डरूपे अर्जुनः अनेक मुखानि नयनानि दिव्य आभरणानि दिव्य आयुधानि च दर्शितवान्।भगवान् दिव्य मालाः अम्बराणि धारयित्वा दिव्य गन्धान् अनुलेपनं कृत्वा देदीप्यमानेन प्रकाशयति।कोटि सूर्याणां प्रकाशस्य अपेक्षया भगवान् अधिक तेजोमयः अस्ति।सर्वजगत् भगवतः विश्वरूपे स्थितम् अजुनः दर्शितवान्।भगवतः अद्बुत विश्वरूपस्य वर्णनं संजयः केन सः करोति स्म? धृतराष्ट्रेण सह खलु ?धृतराष्टस्य कृते कृष्णस्य महिमाम् नूतन विषयं कदापि न।कौरव पाण्डवयोः शान्ति प्रयत्न सन्दर्भे अपि भगवान् तस्य विश्वरूप दर्शनं धृतराष्ट्रस्य कृते प्रासिदितवान्।भगवतः अपरिमित शक्तिं ज्ञात्वा अपि सः किं विश्वाशेन युद्दनिवारणस्य प्रयत्नं न कृतवान्?यदी वयं सावधानेन अवलोकामः चेत् एतद् मायास्वरूपस्य प्रभावं अवगन्तुं शक्यामः।सर्वजगत् सदा भगवतः मायया पीडितः।भगवतः अपार अनुग्रहं पाण्डवानां कृते अस्ति - एतद् विषयं ज्ञात्वा अपि कौरवाः आत्मघातकयुद्दं कर्तुं निर्णयतिवन्तः।कारणं किं? ते सर्वे अपि भगवतः मयामोहिताः आसन्।तस्याः मायायाः विमुक्तिमार्गं केवल भगवद् संपूर्ण शरणागतिम् एव।
भागवथा कथायम् अपि भगवान् श्री कृष्णः माता यशोदायै विश्वरूपसंदर्शनभाग्यं दत्तवान्।तत् समये भगवतः मुखे यशोदा सर्वजगत् दर्शितवति।यशोदा बालकस्य मुखे सकलकोटि ब्रह्माण्डानि दृष्ट्वा आश्चर्यं परमानन्दस्थितिं च अनुभूतवती।किन्तु अनन्तरं भगवता मायया तद् विषयं विस्मरितवति।यथावत् कृष्णः सामान्य बालकः इति चिन्तयित्वा एव व्यवहरति स्म।वयं अपि अस्न्माकं जीवनेषु कतिपय सन्दर्भेषु भगवतः अनुग्रहं अनुभवामः किन्तु सदा अप्रमत्तेन जीवनाचरणं कर्तुं न शक्यामहे।तर्हि किं साधनं? पुनः निरन्तर भगवद्भक्तिः एव खलु।
भगवतः विश्वरूपं दृष्ट्वा अर्जुनः अतीव आनन्देन तद् रूपस्य वर्णनं करोति स्म।भगवतः अनन्त बाहवः पादाः अक्षाणि सर्वत्र प्रवृद्दवन्ति।पुरुषसूक्त्याम् अपि भगवतः स्वरूपस्य वर्णनं साद्रुशप्रकारेण अस्ति।
स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥
सर्वश्रुष्टिः सर्वशक्तिमतस्य भगवतः अधीनेन चलति।
भयादस्याग्निस्तपति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः
सर्वजगत् भागवते भीत्या एव व्यवहरति।
दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसन्निभानि |
तद् स्वरूपं दृष्ट्वा अर्जुनः भयकंपितः अभवत्।सर्व प्राणिनः भगवतः मुखे प्रविशन्ति।यथा तीव्रवेगाः पतङ्गाः ज्वलितम् अग्निम् आत्मविनाशाय प्रविशन्ति तथा एव तीव्रगमनाः प्राणिनः तव मुखानि अपि नाशाय विशन्ति। भगवान् श्रुष्टि स्थिति लय कारकः।विश्वस्य एताः त्रीणि स्थितयः भगवता एव शाशितः।इदानीं अर्जुनः भगवतः उग्रलयकारकस्वरूपं दर्शितवान्।अर्जुनस्य सर्वबन्धुजनाः मित्राः च भगवता ग्रसितः - इति दृष्ट्वा सः भीतः अभवत्। अर्जुनः कृष्णस्य इष्टसखा।सः इतर पाण्डवानां अपेक्षया अधिक समयं कृष्णेन सह यापयतिवान्।सः सुबद्राम् परिणयनम् कृत्वा कृष्णस्य बान्धव्यं अपि प्राप्तवान्।अनेक सन्दर्भे कृष्णस्य सूचानानुसारेण एव व्यवहरितवान्। तत् कारणेन एव अर्जुनः तस्य रथिनः दायित्वं कृष्णं नियोजयतिवान्। किन्तु भगवतः विश्वरूपसन्दर्शानन्तरम् अर्जुनस्य मनसि क्रमशः प्रेमभावना स्थाने भीतिभावना उत्पन्नं भवति।यद् कृष्णस्यरूपं अर्जुनेन अद्य पर्यन्तं अवगतः तद् स्वरूपं इदानीं समग्रं भिन्नं भवति।अन्यस्मिन् सन्दर्भे अपि भगवतः भयानक रूपस्य दृष्टान्तं इदानीं पश्यामः।यदा दुष्टसम्हरणार्थम् तस्य प्रियभक्तः प्रह्लादस्य रक्षणार्थं च भगवान् उग्र नृसिंहस्य अवतारं स्वीकृतवान् तदापि सर्व देवलोकाः अतीव भयकम्पिताः अभवन्।ते सर्वे भगवन्तं तस्य उग्ररूपस्य उपसंहरणार्थम् प्रार्थनाः कृतवन्तः।
इदानीं भगवतः विश्वरूपस्य संदर्शनं कृत्वा अतीव भीतिम् अनुभवयित्वा सः भगवतः प्रकृतिं हेतुं च ज्ञातुं इच्छतिवान्।द्वित्रिंशत्तम श्लोके भगवान् इति उक्तवान्।कालः एव सर्व विश्वान् विनश्यति।सकलघटनाः प्रसिद्दपुरुषाः देशाः भाषाः संस्कृतयः योधाः च कालेन एव ग्रास्यते।भगवान् एव कालपुरुषः।विना अर्जुनस्य योगदानेन अपि प्रत्यनीकेषु योधानां समाहर्तुम् भविष्यति।अहं सर्वान् लोकान् संहर्तुं प्रवृद्दः कालोऽस्मि।प्रतिपक्षसैन्येषु ये योधाः सन्ति तान् त्वं न मारयसि चेदपि अवश्यं ते मृताः भविष्यन्ति।द्रोणः भीष्मः जयद्रदः कर्णः अन्ये सर्वे अपि मया पूर्वमेव निहताः।मया निहतानेव त्वं नाशय।व्यथां मा कुरु। शत्रून् जेष्यसि।
भगवान् एव वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः प्रपितामहः च।अर्जुनः कृष्णे एव सर्व देवानाम् दर्शनं कृतवान्। विश्वस्य निर्वहणार्थम् भगवान् एव केचन देवान् नियुक्तवान्।किन्तु ते सर्वे भगवतः विविधानि रूपाणि एव। अर्जुनः भक्त्या सहस्र्वारं भगवतः प्रणामं कृतवान्। पुनः पुनः प्रणामं कृतवान्। भगवान् श्री कृष्णः एव सर्व शक्तिमतः - इति ज्ञात्वा, अर्जुनः पुनः भगवतः स्थुतिं कृतवान्।हे - अनन्तवीर्य, अनन्तविक्रम - अहं त्वां सर्वतः नमस्करोमि।अहं त्वं मम प्रिय सखा इति मत्वा तस्य विशेष महिमानम् न ज्ञात्वा प्रायः बहूनि दोषानि कृतवान्।कृपया क्षमा एतस्मिन् सन्दर्भे अहं श्री वेङ्कटेस्वर स्थोत्रस्य अन्तिम पङ्क्तीः स्मरामि।
अज्ञानिना मया दोषा न शेषान्विहितान् हरे ।
क्षमस्व त्वं क्षमस्व त्वं शेषशैल शिखामणे ॥।
भगवान् - भवान् मम कृते कृपेण स्वस्य अमोघ विश्वरूपं प्रदर्शितवान्।।विश्वरूप! किरीटधारयित्वेन गदाधारयित्येन चक्रपाणयित्येन च यत् सौम्यं रूपं मां प्रदर्शियितवान् असि तदैव रूपं अहं दृष्टुं इच्छामि।हे अनन्तभाहो!कृप्याय पुनः शन्तस्वरूपं स्वीकरोतु - अन्ते अर्जुनः इति प्रार्थयितवान्।
भगवान् दयामयः।यदा अर्जुनः विश्वरूपस्य दर्शनस्य इच्छा प्रकटयतिवान्,तस्य अद्वितीय अप्रमेय च दिव्यरूपं प्रदर्शितवान्।इदानीं अर्जुनस्य प्रार्थनाम् अन्गीकृत्वा पुनः तस्य सोव्म्यरूपं धारयतिवान् ।अध्यायस्य अन्ते भगवान् सर्वजनणाम् कृते एकः परमोत्क्रुष्टसंदेशं दत्तवान्।यः पुरुषः मदर्थकर्मकारी मन्निष्टः मत्सेवकः विषयसङ्गरहितः सर्वप्राणिषु द्वेषरहितः च भवति सः मां उपगच्छति।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment