Tuesday, July 25, 2023
Chapter 18 - Part 2
श्री गुरुभ्यो नमः ।श्री कृष्णपरमात्मने नमः।
अस्माकं जीवनेषु बहुषु सन्दर्भेषु समुचित धर्मविचक्षण निर्धारणं कर्तुं वयं संभ्रमस्थितिं अनुभवयामः|धर्मविचक्षणं सर्वदा सुलभतरं न| वसिष्ट वामदेवा इत्यादि महापुरुषेषु धर्मं
धर्मरूपेण एव भासति| ते सदा सत्प्रवर्तन मार्गेन चलन्ति| तेषां कृते कदापि द्वन्द्व विचारान् न पीडयन्ति| ते सर्व सृष्टिं समभावेन पस्च्यन्ति| केचन जनाः स्वभावरीत्या अधर्म, अवैदिक च भावान् धारयन्ति|किन्तु बाह्यजगति दंबेन सत्प्रवर्तनचाराः साद्रुशाः व्यवहारन्ति| कलियुगे ते एव राक्षाशाः शठाः च| तेषां समीकरणं कर्तुं बहुक्लिष्टः विषयः| तृतीय वर्गे बाह्य जगति अवैदिकाः दृश्यन्ते कितुं ते परमपावन योगिपुरुषाः भवन्ति| ते संध्यावन्दनादि नित्यनैमित्तिक कार्याणि न कुर्वन्ति किन्तु ते आत्मज्ञानं प्राप्य सदा भगवति रमन्ति| चतुर्धा वर्गे अधर्म जनाः सदा अधर्ममार्गे कर्याचराणां कर्तुं इच्छन्ति|त्रिंशत् त्तम श्लोके भगवान् यदी कोऽपि बुद्दीं सत्वगुणे एव सदा स्थापयति चेत् सः सर्वदा धर्ममार्गेन,विना विचलितेन सर्व निर्णयानि कर्तुं शक्यन्ते - इति उक्तवान्। यदी मोहेन ममकारेण च धर्माधर्म निर्णयं क्लिष्टं भवति चेत् सा बुद्दिः राजसिक बुद्दिः भवति।मूर्खाः अधर्म आचरणं एव धर्मोचितं इति भावयन्ति - ते तामसिक बुध्याः पीडिताः ।दृष्टान्त रूपेण माहभारते कौरवाः द्रौपद्याः अवमानं रज्यसभे कर्तुं प्रयत्नं कृतवन्तः । एकः वार्ताहारः दुर्योदनस्य आदेशानुशारेण 'सा कौरवाणां दासी - इति गोषितवान"। महासाध्वि द्रौपदी कौरवसभे 'राजः धर्मराजः द्यूत क्रीडे स्वस्य पराजितानन्तरं मम पणं कृतवान वा अथवा मम पणं कृत्वा स्वस्य पराजयं प्राप्तुवान् वा - इति प्रश्नं कौरव ज्येष्टं भीष्मं प्रुच्चतिवति। यदी धर्मराजः स्वस्य पराजयानन्तरं द्रौपद्याः पणं कृतवान् चेत् धर्मराजः कथं तत् पणस्य योग्यता प्रप्तुवान् - इति द्रौपद्याः भावना अभवत्।भीष्मः मोहावेशेन राजसिक बुद्ध्या समुचित धर्मानिर्णयनं न कृतवान्।महाभारते अन्य एकं दृष्टान्तं एते सन्दर्भे पश्यामः।
अज्ञातवशानन्तरं विराटराज्यस्य रक्षणार्थं कौरवाणां गोशयात्रायाः युद्दे अर्जुनं दृष्ट्वा दुर्योदनः निर्देशित त्रयोदशवर्षाणि समयं न अभवत इति चिन्तयित्वा भीष्मं पुनः संयक्रीत्या कालगणनम् कर्तुं अपेक्षितवान्। किन्तु सः भीष्मस्य उत्तरेन न संतुष्टं प्राप्त्वा पुनः धर्मराजस्य अभिप्रायं प्राप्तुं एकं वार्त्ताहारं प्रेषितवान्।धर्मराजः कदापि स्वप्रयोजनार्थं अथवा स्वर्धबुध्या सह धर्मविरुद्दकार्याणि न करोति।सः सदा सात्विकबुध्या एव व्यवहरति। सनातन वर्णाश्रमे ब्रह्मणा क्षत्रिय वैश्य शूद्र च विधिविधानान् तेषां लक्षणानाम् अनुशारेण निर्देशितवन्तः। वर्णाश्रम जीवनं समुचितदायित्वं अपि नियोगयति।शमः दमः तपः शौचं आर्जवम् एव च ज्ञानं विज्ञानम् आस्क्तिक्त्वं स्वभावजम् ब्रह्मकर्म - इति भगवान् सूचितवान्।यदी ब्रह्मणाश्रमे स्थित्वा कोऽपि भगवता परिभाषित गुणैः जीवनं न यापयति चेत् सः भगवतः प्रसन्नताम् कदापि न प्राप्नोति।
अश्वत्तामः गुरुपुत्रः ब्रह्मणः च।किन्तु सः अन्ते कृष्णस्य शापं प्रप्तवान्।द्रोणाचार्यः महत् शक्तिसंपन्नः शाश्त्रविशारदः च।सः कुरुक्षेत्रसंग्रामे ब्रह्मणा वर्णाश्रमं त्यजित्वा क्षत्रियधर्मानुष्टानं कर्तुं निस्च्यतिवान्।तत् कारणे भगवतः अनुग्रहं न प्राप्नुवान्।संजयः सूतवर्ण संजातः।सः तस्य वर्णाश्रमधर्मं निश्कपटरूपेण आचरितवान्।सर्व जनाः संजयस्य मोखेण अमोघ दिव्य च भगवद्गीतायाः उपदेशं प्राप्नुवन्ति। विदुरः शूद्रकुल संजातः, किन्तु सः भगवतः अतीव संनिहितः अभवत्। भगवान् एव सर्वसृष्ट्याम् त्रिगुणातीतः।किन्तु वर्णाश्रम महत्वं बोधितुं, भगवान् स्वयं राजसूययाग समये मुनीनाम् पादसेवाम् कृत्वा शूद्रवर्णाश्रम धर्मं अपि आचरितवान्।
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ।।
यदी कोऽपि सततं श्रवण कीर्तन इत्यादि भक्तिसाधनैः संपूर्ण भगवदनुग्रहं प्राप्नोति चेत् सः अपि गुणातीतः भविष्यति।तस्य कृते आत्मज्ञानं तदनुश्रितं मोक्षप्राप्तिं अपि संप्राप्यति।किन्तु यावत्पर्यन्तं सर्वेषां कृते स्वधर्मानुशरणं इत्य्क्ते वृत्तिधर्मानुशरणं एव परमो धर्मं भवति ।
भगवान् एव सर्वजनानां प्राकृतिक स्वभावान् संपूर्ण रीत्या जानाति।।सर्वे सर्वदा तेषाम् इष्टानुशारेण व्यवहरितुम् स्वतन्त्रताः न।सर्व जनानाम् आत्मस्वभावान् भौतिकत्रिगुणात्मिका अधीने भवन्ति।अर्जुनः सुक्षत्रियः।सः तात्कालिकभावावेशेन युद्दस्य विमुखता व्यक्तं कृतवान्।किन्तु सः कथं दीर्घकालपर्यन्तं असहाजरीत्या भवितुं शक्यते? कमपि स्वस्य निज स्वभावविरुद्दभावेन दीर्घकालं व्यवहरितुम् न शक्यन्ते।किमर्धम्?सकलप्राणिषु भगवान् स्वयं स्थित्वा तेषां कर्म गुणानुशारेण तेषां जीवनविधानं निर्धारयति।कदापि कोऽपि सर्व स्वतन्त्रः न भवितुं शक्यते।"इदं न मम" एतस्य भावनेन संपूर्ण शरणागतिं कर्तुं विना किमपि अन्य साधनं नास्ति।भगवदनुग्रहात् परमां शान्तिं प्राप्नुवन् शाश्वत स्थानं लभति।बहवः अन्य धर्माः अविश्वास जनानां हतं कर्तुं आदेशं ददति।समाजे संकुचितचिन्तना एव वृद्दीं कुर्वन्ति।MY WAY OR HIGHWAY - एतस्य भावना कदापि समजश्रेयस्करम् न भवति।मानवमेधा अतीव गतिशीला अस्ति।सायाः अशाश्त्रीयविधानैः नियत्रणं करोति चेत् मानवजीवने तीव्र संक्षोभस्थित्याः उत्पन्नं भवति।
एतस्य वर्षस्य मे माशे यदा अहं भारतदेशात् अमेरिका देशं आगतवान् विमाने मम सहयात्रिकः एकः zaambiyaa राष्ट्रस्य व्यक्तिः अभवत्।आरम्भे अहं सया व्यक्तया सह संबाषणं कर्तुं विमुखता आसम्।किन्तु सा बहुदीर्घायात्रा अभवत्।किञ्चित् समयानन्तरं अहं zambia देशस्य राजकीयपरिस्थितीनाम् विषये प्रुच्चतिवान्।zambia राष्ट्रं प्रजातन्त्रराष्ट्रः किन्तु तस्मिन् राज्यपालने अतीव church प्रबलं वर्तते।यदी कोऽपि तत्मतनियमानुशारेण न व्यवहरति तर्हि तस्य कृते राज्यलाभान् न लभति।किन्तु एतस्य मार्गेण मम व्यक्तिगत जीवने कतिपय अध्यात्मिक प्रश्नानां निरपेक्षसमधानानि अहं प्राप्तुं न शक्योमि।अहं विवेकानन्द, रमण महर्षि राम कृष्ण परमहंस च इत्यादि बोधनैः बहुअकर्षितः अस्मि। तान् उपदेशान् आचरयित्वा मानशिक् उपशमनं प्राप्तुं प्रयत्नं करोमि - इति मम सह् यात्रिकेन उक्तम्। अहं तस्य भाषणं श्रुत्वा विस्मयचकितः आसम्।अस्माकं जीवने संप्रप्तित आध्यात्मिक परिग्रहज्ञानस्य सततं नवीकरणं अतीव आवश्यकं भवति।देशकालपरिस्थितीः अनुशारेण वयं एतस्य ज्ञानस्य अवलोकनं कृत्वा एव मनसि शान्तिं प्राप्तुं शक्यन्ते।बलेन आलम्भनं करोति चेत् मनसि तीव्र संक्षोभं निश्चयेन भवति। तद् कारणे भगवान् सर्वोत्कृष्ट ज्ञानोपदेशं यावत्पर्यन्तम् कृत्वा अन्तिम निर्णयं कर्तुं “यथेच्छसि तथा कुरु” - इति उक्त्वा अर्जुनाय स्वेच्छा दत्तवान्।
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच:
भगवान् तस्य उपदेशस्य परिसमाप्तं कुर्वन् समस्त भगवद्गीतायाः मकुटसन्देशं दत्तवान्।भगवान् श्री कृष्ण परमात्मनः स्वयं चतुर्धा अध्याये
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्
इति उपदेशं दत्वा स्वस्य अवतार प्रयोजनम् स्पष्टेन प्रकटयतिवान्।तर्हि भगवान् पुनः प्रतिपक्षित संदेशं किं कारणेन दत्तवान्?भगवान् एव धर्मस्वरूपः।यदी कोऽपि पावनः भगवतः शरणागतिं करोति चेत् तस्य धर्मचारित्रस्य दायित्वं स्वयं भगवान् एव स्वीकरोति।तस्य कृते धर्माधर्मनिर्णय दायित्वं अपि सः एव निर्वहयति।भगवान् केवल धर्मपरित्यजं कर्तुं न बोधितवान्, अनन्तरं "शरणं व्रज" इति उक्तवान्।एतस्मिन् श्लोकस्य अनेक निर्वचनानि व्याख्यानानि च सन्ति, किन्तु अहं मम ज्ञात अर्थं प्रकटी कर्तुं प्रयत्नं कृतवान्।
भगवान् श्रीकृष्णः स्वस्यजीवनपर्यन्तं एतद् दिव्यउपदेशं अनेकसंदर्बेषु बोधयितुं अशक्यत्।किन्तु भगवान् समीचीनश्रोतुः निरीक्षणं कृतवान्।अपात्र दानं कदापि शास्त्र संमतः न।सद्गुरुः केवल ज्ञान उपदेशं न करोति।सः शिष्यस्य योग्यातानुशारेण कस्य ज्ञानोपदेशं करणीयं - एतस्य निश्चयं करोति।सत्विद्या सर्वेषां कृते समानरीत्या उन्नति न करोति।कुतर्क जनानां कृते सत्विद्यायाः उपदेशं न करणीयं।अन्ते संजयः सकलऐश्वर्यस्य सर्वविजयस्य सकलसंवृद्द्याः सकलधर्मस्य च अस्थित्व सरलसूत्रं उक्तवान्।
यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: |
तत्र श्रीर्विजयो भूतिध्रुवा नीतिर्मतिर्मम || 78||
भगवतः श्रीकृष्णस्य उपदेशं श्रुत्वा अर्जुनः तस्य संभ्रमचित्तं त्यजित्वा कर्तव्यस्य कृते आकर्षितः अभवत्।किन्तु परोक्षरूपेण समानउपदेशं श्रुत्वा धृतराष्ट्रः तस्य मोहं न त्यजितवान्।वयं किं मार्गं चिनुमः संपूर्णरीत्या अस्माकं निर्णयं एव भवति।
गत द्वौ वर्षपर्यन्तं भगवद्गीतायाः पठनं मम जीवने कान् प्रभावान् आनयति?आदौ एतस्याः कक्षायाः मम कृते संस्कृत बषावर्धनं इति अहं चिन्तयतिवान्।इतः पूर्वम् अहं कदापि भगवद्गीतायाः पठनं अथवा श्रवणं अथवा उच्चारणं न कृतवान्।अहं आरम्भदिनेषु यदी कस्यापि श्लोकस्य व्याकरणम् अथवा तात्पर्यम् लिखितवान् चेत् बहुगर्वभावं अनुभवयतिवान्।भावकथनान्तरं तस्य youtube link बहून् जनान् प्रेषयित्वा तेषां प्रतिस्पन्दनस्य कृते प्रतीक्षा कृतवान् आसम्।क्रमशः भगवतः गीतोपदेशस्य बहूनि सूत्राणि मम जीवनविधाने न प्राप्य निरुत्साहभावना अनुभूतवान्।पुनः पुनः भगवतः अस्माकं कृते दया द्रष्ट्वा पुलकितवान्।भगवद्गीतायाः गम्भीरज्ञानं समग्ररीत्या अहं कथं अवलोकनं कर्तुं शक्योमि - यदा कक्षायाः समाप्तकालम् आसन्नं अभवत् एतस्य भावनेन किञ्चित् व्यकुलितः आसाम्।यदी भगवतः उपदेशित न्युनतमं एकं श्लोकं अपि मम जीवने मम जीवनस्य आचरण विधाने सम्यक् रीत्या स्थापयामि चेत्, मम जीवन परमोद्देश्यम् सार्धकं भवति - इदानीम् इति अहं मन्ये।एतस्मिन् भगवद्गीतायाः प्रयाणे सद्गुरोः परिचयं सत्संग सान्गत्यं मम कृते लभति।अहो ! एतद् केवल मम पूर्वजन्म सुक्रुतफलितमेव खलु।
Subscribe to:
Posts (Atom)